________________
( १०४ ) ॥ अथ मीमांसादर्शनम् ॥ पूर्वोत्तरविभेदेन मीमांसाद्विविधामता ॥ ___ आद्या कर्मप्रधानाऽन्त्या ज्ञानप्राधान्यमाश्रिता ॥१॥
पूर्वमीमांसोत्तरमीमांसाभेदेन मीमांसा द्विविधा, तत्र पूर्वमीमांसा कर्मप्रधाना, जैमिनिमुनिप्रणीता, उत्तरमीमांसा ज्ञानप्रधाना वेदव्यासेन सूत्रिता, तत्र पूर्वमीमांसायां धर्मविवेकायागादौ "अथातो धर्म जिज्ञासा ॥१॥" इति धर्मजिज्ञासांसूत्रयामास, वेदाध्यनान्नतरं धर्मविचारशास्रमिदमारम्भणीयमिति तदर्थः, धर्मश्च चोदनालक्षणोऽर्थोधर्म इति सूत्रे चोदनापदस्य वेदपरत्वाद वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म इति यागादिरेव, वेदस्य सर्वस्य धर्मतात्पर्यकत्वेन धर्मप्रतिपादकत्वात्, यागादिश्च यजेत स्वर्गकाम इत्यादि वाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते, नथाहि यजेतेत्यत्रास्त्यंशद्वयं यजिधातुः प्रत्ययश्च, प्रत्ययेऽप्यस्त्यंशद्वयमाख्यातत्वं लिङत्वंच, तत्राख्यातत्वं दशलकारसाधारणं लित्वं पुलिङ्मात्रे, उभाभ्यामप्यंशाभ्यां भावनैवोच्यते, भावनानामभवितु भवनानुकूलो भावयितु ापारविशेषः, सा द्विधा शाब्दीभावना आर्थीभावना चेति, तत्र पुरुषप्रवृत्त्यनुकूलो भावयितु व्यापारविशेषः शाब्दोभावना, सा च लिङशेनोच्यते, लिड्शवणऽयं मां प्रवर्तयति मत्प्रवृत्यनुकूलव्यापारवानिति प्रतीतेः, स च व्यापार विशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः, वैदिकवाक्ये तु पुरुषाभावाल्लिङादिशब्दनिष्ठ एव, अत एव शाब्दीभावनेति व्यवह्रियते,