________________
( १०३ ) द्रव्यमेव, गुणकर्मणोरेवासमवायिकारणम्, जन्यद्रव्यमात्रस्यासमवायिकारणमवयवसंयोगः, एवं पाकजरूप रसगन्धस्पर्शानां विलक्षणतेजः संयोगोऽसमवायिकारणं, आत्म विशेषगुणानामात्ममनस्संयोगोऽसमवायिकारणम्, नैमित्तिकद्रवत्त्वस्यासमवायिकारणं तेजः संयोगः इत्यादी सर्वत्र समवायिकारणे समवायसम्बन्धन वृत्तिस्वादसमवायिकारणत्वम्, अवयवरूपादीनामवयविरूपादिम्प्रति स्वसमवायि समवेतत्व सम्बन्धेन समवायिकारणे वृत्तित्वादसमवायिकारणत्वं बोध्यम्, समवायिकारणत्वासमवायिकारणत्वभिन्न कारणत्वं निमित्तकारणत्वम्, तदेतत् कारणत्वं कारणस्वरूपं कारणतावच्छेदकस्वरूपंवानातिरिक्तम्, एवं प्रतियोगित्वादिकमपि प्रतियोग्यादिस्वरूपमेव, सादृश्यमपितभिन्नत्वेसति तद्गत भूयोधर्मवत्त्वं धर्मविशेषस्वरूपमेव, नातिरिक्तं, दाहादिकम्प्रति उत्तेज. काभावविशिष्टप्रतिबन्धकाभावस्य कारणत्वादेव मण्यादिसमव. घानेदाहानुत्पत्त स्तदसमवधानेदाहोत्पत्तेश्च सम्भावान्न शक्तिहा
नुकूलाऽतिरिक्तासमस्ति, तमस्त्वालोकविशेषाभाव एवेति युक्तं नान्ये पदार्थामानगोचरा इति, एतन्मते विरोधासिद्धिव्यभिचारा. अय एव हेत्वाभासाः, तदुक्तम्
"अप्रसिद्धोऽनप्रदेशोऽसन्प्रदेशोऽसनसन्दिग्धश्चानयदेशः" अत एव पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वानि त्रोण्येवहेतुरूपाणीति ॥ वैशेषिकमतं सम्यग सुशीलेन विभावितम् ॥ संक्षेपतोऽस्य विस्तारो ज्ञेयो भाष्यादितो बुधैः ।।१॥
॥ इति काणाददर्शनम् ॥