________________
( १०२ )
तत्रान्योन्याभावभिन्नाभावः संसर्गाभावः, स प्रागभावध्वंसात्यन्ताभावभेदेन त्रिविधः, तत्र अनादि, सान्तः प्रागभावः, सादिरनन्तो ध्वंसः, एतौ स्वप्रतियोगिसमवायिकारणर्वात्तनौ, कपाले घटो भविष्यति कपाले घटो नश्यतीति प्रतीतेः तादात्म्यान्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽत्यन्ताभावोनित्यः, यथा भूतले संयोगेन घटो नास्तीति, संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न घटनिष्ठ. प्रतियोगिताकात्यन्ताभाववद् भूतलमित्युक्तप्रतीतिपर्यवसानम्, येन सम्बन्धेन येन धर्मेण यत्र प्रतियोगीवर्त्तते तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्न तन्निष्ठप्रतिगोगिताकाभावो न तत्र वर्त्तते तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्न तन्निष्ठप्रतियोगिकाभावो न वर्त्तत इति प्रतियोगितावच्छेदकविशिष्ट प्रतियोगिना सममस्य विरोधः, नान्ये पदार्था मानगोचरा इति निरुक्तसप्तपदार्थभिन्नाः पदार्था प्रमाणविषया नेत्यर्थः । परिमाण्डल्यन्निपदार्थ साधर्म्यं कारणत्वं न पदार्थान्तरं किन्त्वन्यथासिद्धिशून्यत्वे सति नियत पूर्ववत्तत्वं तत् तत्रान्यथासिद्धयः पञ्च ग्रन्थातरे दर्शिताः, कारणत्वं त्रिविधं समवायिकारणत्वमसवायिकाणत्वं निमित्तकाणत्वं, चेति, यत्र कारणे यत् कार्यं समवायसम्बन्धेनोत्पद्यते तत् समवायिकारणं, अवयविनोऽवयवाः समवायिकारणं, यत्र द्रव्ये ये गुणा यानि च कर्माण्युत्पद्यन्ते तद्रव्यं तेषां गुणानां कर्मणाञ्च समवायिकारणं, समवायिकारणे समवाय स्वसमवायिसमवेतत्वान्यतरसम्बन्धेन वृत्तिकारणसमवायिकारणम्, ज्ञानादिकं न कस्याप्यसमवायिकारणमिति तद्भिन्नत्वमत्रदेयम्, भावकार्यमात्रस्य समवायिकारणं
,