________________
( १०६ ) भावयेदिति । यत्र तूभयम प्राप्तं तत्र विशिष्टं विधत्ते, यथा सोमेन यजेतेत्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम्, सोम पदे मत्वर्थलक्षणया सोमवतायोगेनेष्टम्भावयेदिति वाक्यार्थबोधः ।
विधिश्चतुर्विधः उत्पत्तिविधिविनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति, तत्र कर्मस्वरूपमात्रबोधकोविधिरुत्पत्तिविधिः, यथाऽग्निहोत्रं जुहोतीति, अत्रविधौ कर्मणः करणत्वेनान्वयः, अग्निहोत्रहोमेनेष्टम्भावयेदिति । अङ्गप्रधानसम्बन्धबोधको विधि विनियोगविधिः, यथा दध्नाजुहोतीति, स हि तृतीययाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते दध्नाहोमं भावयेदिति, गुणविधी च धात्वर्थस्य साध्यत्वेनान्वयः, क्वचिदाश्रयत्वेनापि, यथा दध्नेन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेनेन्द्रियं भावयेत्, तच्च किन्निप्ठमित्याकाङ्क्षायां सन्निधिप्राप्तहोममाश्रयत्वेनान्वेति । एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्प्रकरणस्थानसमाख्यारूपाणि, एतत् सहकृतेनानेन विधिना परोद्देशप्रवृतकृतिसाध्यत्वरूपं परार्थ्यापरपर्यायं ज्ञाप्यते, तत्र निरपेक्षो रवः श्रुतिः सा च त्रिविधा विधात्री अभिधात्री विनियोक्त्रीच, तत्राद्या लिङाद्यात्मिका, द्वितीया व्रीह्यादि श्रुतिः, यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री, साऽपि त्रिविधा, विभक्तिरूपा, एकाभिधानरूपा, एकपदरूपाचेति, तत्र विभक्तिश्रुत्याऽङ्गत्वं यथा-व्रीहिभि यजेतेति तृतीयाश्रुत्या ब्रीहीणां यागाङ्गत्वम्, तदपि पुरोडाशप्रकृतितया, यथा पशोर्हदयादिरूपहविः प्रकृतितया यागाङ्गत्वम्, अरुणया एकहायन्या गवा सोमं क्रीणातीत्यस्मिन्