________________
३६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् निष्णाता सङ्गिरन्ते, अतो यस्य तत्त्वाऽधिगमस्तं प्रति जीवाद्यन्यतमस्य विधेयत्वम् , यस्य च जीवाद्यन्यतमाधिगमस्तं प्रति तत्त्वस्य, यस्य चोभयाऽनधिगमस्तं प्रत्युभयस्य विधेयत्वमित्यतिदेशेनाऽऽ करे व्यवस्थितम् ।
विशेषविधि-निषेधयोः शेषनिषेध-विध्यभ्यनुज्ञाफलकत्वात् , सामान्यतोऽवगतानां विशेषतोऽभिधाने न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वं व्युत्पत्तिसिद्धमित्यपरे ।
5ऽकाङ्कामत्पदान्तरप्रतिपाद्यस्य विधेयत्वमुद्देश्यत्वं च, उत्तरत्राऽऽनुपूर्वीलक्षणाऽऽकाशामत्प्रकृति-प्रत्ययप्रतिपाद्ययोरेकस्योद्देश्यत्वमपरस्य विधेयत्वमिति विशेषः। प्रकृते सङ्गमयति- अत इतिअप्राप्तस्य विधेयत्वत इत्यर्थः । यस्य यस्य प्रतिपाद्यशिष्यादेः प्रमातुः। तत्त्वाऽधिगमः तत्त्वं समस्तीत्येतावन्मानं ज्ञानम्। तं प्रति तादृशप्रमातारं प्रति, तत्त्वस्य प्राप्तत्वान्न विधेयत्वम्, किन्तु जीवाद्यन्यतमस्य जीवाऽजीवाऽऽश्रवादिसप्तान्यतमस्य प्रमाणान्तरात् परमार्थस्वरूपतयाऽनवगतस्य विधेयत्वमित्यर्थः। 'तत्त्वस्य' इत्यस्य 'विधेयत्वम्' इत्यनेन सम्बन्धः। उभयाऽनधिगमः जीवाद्यन्यतम-तत्त्वोभयानधिगमः । उभयस्य जीवाद्यन्यतम तत्त्वोभयस्य । इत्थं विधेयत्वोररीकारो न सूरिभिरन्यत्राऽऽहत इति न वाच्यम्, रत्नाकरे देवसरिभिरित्थमेवोपदर्शितत्वादित्याह- इत्यतिदेशेनेति- एकत्रोपदर्शितस्यान्यत्राऽपि तत्तुल्यतया प्राप्तिरतिदेशस्तेनेत्यर्थः। आकरे स्याद्वादरत्नाकरे ।
विभागस्य न्यूनाऽधिकसङ्ख्याव्यवच्छेदफलकत्वाऽन्यथानुपपत्त्या. विभागवाक्यतो न्यूनाधिकव्यवच्छेदलाभ इत्यर्थादुपदर्शितम्। तत्र न्यूनाधिकसङ्ख्याव्यवच्छेदबोधकपदान्तराऽभावेऽपि व्युत्पत्तिविशेषसिद्धमेव म्यूनाधिकसङ्ख्याव्यवच्छेदकत्वमिति मतमुपदर्शयति-विशेष