________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३७ ___सर्वत्र श्रुतादध्याहृताद् वैवकारादेव न्यूनाधिकसङ्ख्याव्यवच्छेद इत्यपि केचित् । __ तदेवं जीवाऽजीवादीनि सप्तैव तत्वानीति व्यवस्थितम् । यदि चाभ्युदयहेतुतया पुण्यस्य तत्प्रतिपक्षतया पापस्यापि च पृथग् विधिनिषेधयोरिति- सामान्यत उपस्थितानां पदार्थानां मध्यादेकविशेष. विधानस्याऽन्यविशेषनिषेधानुज्ञापकत्वादेकविशेषनिषेधस्य चान्यविशेषविध्यनुज्ञापकत्वाच्च यस्य विशेषस्य विधानं न तस्य निषेध इति न्यूनसङ्ख्याव्यवच्छेदः, यस्य विशेषस्य विधानं तदन्यस्य विशेषस्य निषेधानुज्ञानाच्चाऽधिकसङ्ख्याव्यवच्छेद इत्येवं न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वमित्यपरे सूरयो वर्णयन्तीत्यर्थः।
प्रकारविधया वाक्यजन्यबोधे पदवृत्त्युपस्थापितस्यैव भानमिति विभागवाक्येऽन्यव्यवच्छेदकस्यैवकारस्याऽप्यध्याहृतस्य घटकत्वमिति तत एव न्यूनाधिकसङ्घयाव्यवच्छेद इति केषाश्चिन्मतमुपदर्शयति- सर्वत्रंति विभागवाक्ये तदन्यवाक्ये चेत्यर्थः, अध्याहारकल्पनागौरवमत्रास्वरसबीजम्, विभागवाक्यतो यावदुक्तपदार्थावबोधान्तरमानसबोधे एव न्यूनाधिकसङ्ख्याव्यवच्छेदभानमित्यभ्युपगमेऽपि क्षत्यभावात् , न्यूनाधिकसङ्घयाव्यवच्छेदविशिष्टस्वाभिधेये वाक्यघटकान्त्यपदस्य लक्षणयाऽपि वाक्यजबोधेऽपि न्यूनाधिकसङ्घयाव्यवच्छेदभानसम्भवात् , संसर्गमर्यादया वा तद्भानमित्य.स्यापि वक्तुं शक्यत्वादिति बोध्यम् । उपसंहरति-तदेवमिति । ननु जैनसिद्धान्ते क्वचित् सप्ततत्त्वनिरूपणं क्वचित् पुण्य-पापयोरप्युक्तसप्ताधिकयोः परिगणनतो नवतत्त्वनिरूपणमपि दृश्यत इति तत्र मुमुक्षुप्रवृत्त्युपयुक्तज्ञानविषयपरतया तत्त्वपदस्य व्याख्यानतः सप्ततत्त्वनिरूपणं सङ्गमितं भवता, नवतत्त्वनिरूपणं तु कथं सङ्गमित स्यादित्यपेक्षयामाह- यदि चेति अभ्युदयहेतुतया स्वर्गादिहेतुतया ।