________________
भनेकालव्यवस्थाप्रकरणम् ]
[ ३५ जकोपाध्यवच्छिन्नमेदाभावसङ्खथाव्याप्यसङ्ख्यायां व्यापकताऽबच्छेदकताऽवच्छेदकत्वपर्याप्त्यभावलक्षणन्यूनत्वव्यवच्छेदस्याऽबावितत्वादिति दिक् ॥
अत्र च 'अदग्धदहन'न्यायेन यावदप्राप्तं तावद् विधेयम् , अत एव "लोहितोष्णीषा ऋत्विजः प्रचरन्ति" इत्यत्र ऋत्विक्प्रचरणस्य प्रत्यक्षसिद्धत्वाल्लोहितोष्णीषत्वमात्रं विधेयम्, “दना जुहोति" इत्यत्र दनः प्रत्यक्षसिद्धत्वात् करणत्वमानं विधेयमिति मीमांसावच्छिन्नभेदाभावादिगता तदवच्छेदकत्वपर्याप्तिर्नास्तीति तदवच्छेदकत्वपर्याप्त्यभावस्वरूपो यो न्यूनत्वव्यवच्छेदस्तस्योक्तसङ्ख्यायामबाधितत्वाद् भवति निरुक्तविभागस्यापि न्यूनत्वव्यवच्छेदफलक. त्वेन युक्तत्वमित्यर्थः। जीवाऽजीवाऽऽश्रवादिविभागवाक्ये कस्य विधेयत्वम् ? कस्य चोद्देश्यत्वम् ? इत्यपेक्षायामाह- अत्र चेति- उक्तवाक्ये त्वित्यर्थः॥ ____ अदग्धेति- यद् दग्धं तद् दग्धमेव न पुनस्तस्य दहनायाग्निव्यापारः, किन्तु य एवांशोऽदग्धस्तस्यैव वहनायाग्निव्यापारस, एवमेव यश्चांशः सिद्धः स सिद्ध एव न पुनस्तत्साधनाय साधकव्यापार इति न तस्य विधेयत्वम् , किन्तु य एवांशो न सिद्धस्तसाधनायैव साधकव्यापार इति तस्यैव विधेयत्वमिति यावदप्राप्त प्रमाणान्तरतो न पूर्व सिद्धम् , तावद् विधेयमित्यर्थः । अप्राप्तस्यैव विधेयत्वमित्यत्र मीमांसकसंवादमुपदर्शयति- अत एवेति- अप्राप्तस्य विधेयत्वादेवेत्यर्थः । 'प्रत्यक्षसिद्धत्वाद्' इत्यनेन ऋत्विजां प्राप्तत्वेन न विधेयत्वमित्युपदर्शितम् , एवमग्रेऽपि । 'दना' इत्यत्र प्रकृत्या दधि प्रतिपाद्यते, प्रत्ययेन च करणत्वम् , तत्र दनः प्रत्यक्षप्रतीतत्वेन प्राप्तत्वान्न विधेयत्वम् , तस्य होम प्रतिकरणत्वं तु न प्रमाणातरप्रतिपन्नमिति तस्यैव विधेयस्वम्, पूर्वत्र समभिव्याहारलक्षणा