________________
३४]
[ तस्वघोधिनीविकृतिविभूषितम् च्छेदकत्वसम्भवादुक्तान्यतमत्वावच्छिनव्यापकतावलादेव न्यूनत्वव्यवच्छेदो बलादापतेत् , तथा च महदासमञ्जस्यमिति चेत् १ न'तत्त्वं परमार्थः' इति विवरणात् तत्त्वपदस्य मुमुक्षुप्रवृत्त्युपयुक्तज्ञानविषये रूढत्वात् , तस्य च सप्तभ्यो न्यूनस्याभावादुक्तविभाताकाऽन्योऽन्याभावस्वरूपस्य वा जीवाऽजीवान्यतमत्वस्येत्यर्थः । म्यापकतावच्छेदकत्वसम्भवात् तादात्म्येन पदार्थब्यापकतावच्छेदकत्वसम्भ. वात् , यत्र तादात्म्येन पदाथस्तमोक्ताभावमात्रस्वरूपजीवाऽजीवान्यतमत्ववानपीति भवति पदार्थव्यापकतविच्छेदकत्वं जीवाऽजीवान्यतमत्वस्य। एवं च सम्भवत्यतिप्रसङ्गाद्यनागदके लघौ धर्म गुरुधर्मों न व्यापकताया अवच्छेदक इति जीवाऽजीवा-ऽऽश्रवादिभेदसप्तकाऽभावरूपस्य जीवाऽजीवाऽऽश्रवाद्यन्यतमत्वस्य जीवाऽजीवभेदद्वयाऽभावरूपजीवाऽजीवान्यतमत्वापेक्षया गुरूभूतस्य पदार्थव्यापकतावच्छेदकत्वं न स्यात् , जीवाऽजीवाऽऽश्रवाद्यवच्छिन्ना चोक्तव्यापकता जीवाऽजीवाऽऽश्रवादिपदार्थसप्तकविभागकरनाभ्युपगम्यते, तदभ्युपगमस्तदेवस्याद् यदि भेदद्वयाऽभावमात्रस्योक्तव्यापकतावच्छेदकत्वं न भवेदिति तादृशव्यापकताबलान्न्यूनत्वव्यवच्छेदः स्वीकरणीय एव, तस्याऽनुपपन्नत्वं दर्शितमेवेत्याह- उक्तान्यतमत्वावच्छिन्नेति-जीवाऽजीवा-ऽऽश्रवाद्यन्यतमत्वावच्छिन्नेत्यर्थः। जीवाऽजीवाऽऽश्रवेत्यादिः पदार्थस्य न विभागः, किन्तु परमार्थस्य, परमार्थश्च स एव भवति यज्ज्ञानान्नुमुक्षुप्रवृत्तिः, सा च जीवाऽजीवाऽऽश्रवादि. सप्तकज्ञानादेव न तु न्यूनशानादित्युक्तविभजनं नायुक्तमिति समा. धत्ते- नेति। तस्य च मुमुक्षुप्रवृत्त्युपयोगिज्ञानविषयस्य । सप्तभ्यो जीवाऽजीवाऽऽश्रवादिभ्यः सप्तभ्यः। उक्तेति- जीवत्वाऽजीवत्वा-ऽऽ. श्रवत्व-बन्धत्व-संवरत्व-निर्जरात्व-मोक्षत्वात्मकोपाध्यवच्छिन्नभेदाऽभावगतसप्तत्वसङ्ख्याव्याप्यषट्त्वादिसङ्ख्यायां मुमुक्षुप्रवृत्युपयुक्तज्ञानविषयव्यापकतावच्छेदकता या सप्तत्वसङ्ख्यावच्छिन्ना जीवत्वा.