________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३ पद्यते । अथैवं न्यूनत्वव्यवच्छेदाभिप्रायाभावादीशविभागकरणेऽपि वस्तुतः पदार्थद्वित्वसिद्धौ भेदद्वयाभावमात्रस्य व्यापकताक
कोपाधीनामिन्द्रियादौ साङ्कयऽपि तदन्यतमत्वस्य पदार्थत्वव्यापकस्य स्वीकारेण विभागः सुसंगतो भवति, अन्यथा पदार्थविभाजकोपाधीनां सार्यात् तदपि विभागसूत्रमयुक्तं स्यादित्याशयः। एवमपि न्यूनत्वव्यवच्छेदः स्वीकरणीय एव, तथा चोक्तदिशाऽन्यतमत्वासम्भवतो विभागस्यायुक्तत्वं स्यादेवेति वैशेषिकाः पुनः प्रत्यवतिष्ठन्ते- अथैवमिति । एवं गौतमसूत्रविभागानुरोधेन सङ्कीर्णस्याप्युपाधेः पदार्थविभाजकत्वव्यवस्थापनेन । न्यूनत्वव्यवच्छेदो यद्यभिप्रेतः स्यात् तदा कस्यचित् प्रमाणस्य प्रमेये कस्यचित् तु निर्णयादावन्तर्भावतो न्यूनसङ्ख्यकपदार्थानामेव सम्भवेन पदार्थाः षोडश न स्युरेव, न्यूनत्वव्यवच्छेदासम्भवादतो ज्ञायते-न्यूनत्वव्यवच्छेदो नाभिप्रेतः, तत एव च न्यूनपदार्थविभाजकधर्ममुपादायापि विभागे सम्भवति तद्धिकसङ्ख्यकविभाजकधर्मोपादानेन विभाग इत्याह- न्यूनत्वेति । ईदृशविभागकरणेऽपि जीवाऽजीवाऽऽश्रवेत्यादिविभागकरणेऽपि। आश्रवादीनां जीवा-ऽजीक्योरेवान्तर्भावसम्भवेऽप्युक्तदिशा सप्तपदार्थविभागोपपादने वस्तुस्थित्या जीवाऽ. जीवौ द्वावेव पदार्थों सप्तधा दर्शिताविति द्वयोरेव पदार्थयोः सिद्धिरित्याह-वस्तुतः पदार्थद्वित्वसिद्धाविति । न्यूनत्वव्यवच्छेदाभिप्रायाsभावेऽपि 'जीवाऽजीवौ द्वौ पदार्थों' इत्यप्यभिमतमेव परस्येति तथात्वे यदनिष्टमापपति तदाह- भेदद्वयाभावमात्रस्येति- एतच्चान्यतमत्वस्याऽत्यन्ताभावरूपत्वपक्षे, अन्योन्याभावरूपत्वपक्षे तु भेदद्वयावच्छिन्नप्रतियोगिताकाऽभावमात्रस्येति बोध्यम्, तथा च जीवभेदवृत्तित्वे सति अजीधभेदवृत्ति यद् द्वित्वं तदच्छिन्नप्रति योगिताकात्यन्ताभावस्वरूपस्य तदवच्छिन्नावच्छेदकताकप्रतियोगि