________________
३२]
[ तत्त्वबोधिनीविवृतिविभूषितम् इत्थमेव "प्रमाण-प्रमेय०" इत्यादि गौतमीयविभागसूत्रमप्युपवात् , इत्येवं दिशाऽन्यजातिष्वप्युपाधिसाङ्कर्य निभालनीयम् । अतो : जातिमात्रोच्छेदभयादुपाधिसाङ्कर्य न जातिबाधकं किन्तु जातिसाङ्कर्यस्यैव जातिबाधकत्वमित्यभिसन्धाय 'जातिसाकर्य' इत्युक्तम् , उपाधेस्तूपाधिसार्यमप्यस्ति जातिसाङ्कमप्यस्ति, अथापि तस्योपाधित्वं निराबाधमेवेति तत्र साङ्कर्थमात्रस्याऽबाधकत्वमेव, तत्रोपाध्योः सायं यथा-घटरूपान्यतरत्व-पटरूपान्यतरत्वयोः घटपटान्यतरत्व-पटमठान्यतरत्वयोः, एवमन्येषामप्यन्यतरत्वादीनामुपाधीनामन्योऽन्यं साङ्कर्य स्पष्टमेवोपलभ्यते, यदेवोपाधिसाय जातात्रुपदर्शितं तदेवोपाधौ जातिसाङ्कर्यस्योदाहरणम्, अन्यदप्युपाधिजात्योः साङ्कर्यमिदमवसेंयम् , तद्यथा-मूर्तत्वं जातिभूतत्वं चोपाधिरिति पक्षे भूर्तत्वजातर्भूतत्वात्मकोपाधिना साकर्यमपि जात्युपाध्योः साङ्कर्यमेव, क्रियाजनकतावच्छेदकतया मूर्तत्वस्य जातिवं नैयाथिकदेशीयैरुपगतमेव, एवं भूतत्वमपि पृथिव्यादिचतुध्यवृत्ति जातिस्वहगं स्पर्शजनकतावच्छेदकतया केचिदभ्युपगच्छन्ति, तस्याकाशवृत्तित्वानभ्युपगमान्न मूर्तत्वेन समं सार्थम् , यत एव जातिसार्यमेव जातित्वबाधकं तत एव गन्धादिसमवायिकारणतावच्छेदकतया सिद्धायाः पृथिवीत्वादिजातेरिन्द्रियत्वेनोपाधिना साङ्कर्यऽपिजातित्वं निर्वहति, किन्तु पृथिवीत्यादिजात्या साङ्कर्यादिन्द्रियत्वमुपाधिरेव न तु जातिरिति नैयायिकसिद्धान्तः, स्वमते तु सामान्य-विशेषात्मकत्वं व्यक्तेरेव न त्वतिरिक्ता काचिजातिः सम. स्तीति बोध्यम् ॥ इत्थमेव विभाजकलाइकर्येऽपि विभागस्य युक्तत्वादेव । प्रमाणप्रमेयेत्यादीति-"प्रमाण-प्रमेय संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-ऽवयव-तर्क निर्णय वाद-जल्प वितण्डा-हेत्वाभास-च्छल-जाति- . निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः '' [ न्यायमू० अ० १, सू० १.] इति सम्पूर्ण सूत्रम् , अत्र प्रमाणत्व प्रमेयत्वादिविभाज