________________
अमेकान्तव्यवस्थाप्रकरणम् ]
[ ३१
जीवात्मकत्वेनाश्रवादे रजीवाद् भेदः, अजीवात्मकत्वेन च जीवाद् भेदः, इत्येवं जीवत्वाऽजीवत्वाद्यसाङ्कर्यस्य सिद्धेः, विभाजकोपाधीनामसार्ये सत्येवान्यतमत्वोपपत्तिरिति नियमेऽपि जीवा ऽजीवाद्यन्यतमत्वस्य सम्भवाज्जीवाऽजीवादिभेदेन सप्तधा तत्त्वविभाग उपपद्यतेतरामित्यर्थः । जातिसाङ्कर्यादीति
" व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधक सङ्ग्रहः ॥ १ ॥
"
2
इति जातिबाधकस ग्रह परवचने सामान्यतः सङ्करस्यैव जातिबाधकतयोपन्यासो न तु जातिसङ्करस्येति किमित्यत्र जातिसाङ्कर्यस्य जातिबाधकतयोपन्यास इति चेत् ? मैवम्- सामान्यतः साङ्कर्यस्य जातिबाधकत्वं उपाधिसाङ्कर्यस्य जातिमात्रे सद्भावेन जातिमात्रस्योच्छेदापत्तेः तथाहि " अन्यत्र नित्यद्रव्येभ्य आश्रितत्व मिहोच्यते " [ कारिकावली ] इति वचनादाश्रितत्वं नित्यद्रव्ये न वर्तते, जात्यादौ वर्तमानं तन्न जातिरूपं जातेर्जात्यादावसत्वात् किन्तूपाधिस्वरूपमेवाश्रितत्वम् तेनोपाधिना समं साङ्कर्यमस्ति द्रव्यत्व- पृथिवीत्वादिजातीनाम्, यतो द्रव्यत्व - पृथिवीत्वाद्यभाववति गुणादौ आश्रितत्वं वर्तते, आश्रित्तत्वाभाववति पार्थिवादिपरमाण्वादौ द्रव्यत्व-पृथिवीत्वादिकं वर्तते, घट- पटाद्यवयविद्रव्ये च द्रव्यत्व- पृथिवीत्वादिकं वर्तते, आश्रितत्वमपि वर्तत इत्येवं परस्परात्यन्ताभाव सामानाधिकरण्ये सति सामानाधिकरण्यलक्षणं साङ्कर्य समस्ति, तथाऽन्यतरत्वादिकमुपाधिरूमेवेति पक्षोऽपि नव्यानामपीष्ट एव तत्र पृथिवी रूपाव्यतरत्वादिना द्रव्यत्वजातेः साङ्कर्य समस्त्येव, निरुक्तान्यतरत्वाऽभाववति जलादौ द्रव्यत्वस्य द्रव्यत्वाभाववति रूपे निरुक्तान्यतरत्वस्य सद्भावेन परस्परात्यन्ताभाव सामानाधिकरण्यस्य, पृथिव्यां द्रव्यत्व- निरुक्तान्यतरत्वयोः सद्भावेन सामानाधिकरण्यस्य च सद्भा