________________
३०]
__ [ तत्त्वबोधिनीविकृतिविभूषितम् जीवत्वाऽऽवसायस्य च जातिसाङ्कर्यादिषाधकान्तरादेव सिद्धे।। ऽजीवत्वाऽऽश्रवत्वादीनां धर्माणां स्वरूपतो भिन्नानां सद्भावेन जीवत्वावच्छिन्नप्रतियोगिताकभेदाऽजीवत्वावच्छिन्नप्रतियोगिताकभेदाऽऽभवत्वावच्छिन्नप्रतियोगिताकभेदानाम् . एवं बन्धत्वाद्यवच्छिन्नप्रतियोगिताकभेदानां सम्भवात् तादृशभेदसप्तकावच्छिन्नप्रतियोगिसाकभेदरूपस्य जीवाजीवाश्रयादिपदार्थसप्तकान्यतमत्वस्य सम्भवान्न तत्त्वस्य जीवादिरूपतया सप्तधा विभागोऽनुपपन्न इत्यर्थः। यथा न जीवत्वा-जीवत्वयोमिथः साङ्कर्य व्यावर्णितं तथा जीवत्वा-ऽजीबस्वाभ्यां सममाश्रवत्वादीनामपि साकर्यमित्थं सङ्गमनीयम्-जीवत्वाभाववति कथश्चिज्जीवभिन्नेऽजीवात्मके आश्रवादी आश्रवत्वादिकं धर्तते, आश्रवत्वाद्यभाववति शुद्धचैतन्यस्वरूपे जीवे जीवत्वं वर्तते, कथञ्चिजीवाभिन्ने चाऽऽश्रवादौ जीवत्वमाश्रवत्वादिकं च वर्तत इति।
ननु यदि विभाजकोपाधीनां साकर्यरूपन्यूनत्वसद्भावेऽप्यन्यतमत्वस्योपपादनेऽन्यतमत्वबलान्न्यूनत्वं न व्यवच्छेद्यमेव विभागबाक्ये, तथा च विभागवाक्यस्य न्यूनसङ्ख्याव्यवच्छेदकफलकत्वमपि नोक्तदिशा भवतोऽभिप्रेतमिति जीवत्वाऽजीवत्वाद्यसाङ्कर्य न कथ. श्चिदुपपद्यतेत्यत आह-जीवत्वा ऽजीवत्वाद्यसाङ्कर्यस्य चेति। अथवा साङ्कर्यस्थ सद्भावेऽपि अन्यतमत्वं सम्भाव्य प्रस्तुत विभागस्य युक्तता दर्शिता, अथ प्रस्तुते सार्यमेव नास्तीति कुतस्तत्प्रयुक्तदोषावतार इत्यावे. दनायाह- जीवत्वाऽजीवत्वाद्यसाङ्कस्य चेति- अस्य 'सिद्धेः' इत्यनेनान्धयः, जीवत्वाऽजीवत्वादिकं चैकस्मिन्नधिकरणे यदि वर्तेत तदा जातिसाङ्कर्यस्य जातित्वबाधकस्य सद्भावाजीवत्वादेर्जातित्वमेव न स्यात्, अस्ति च जीवत्वादेर्जातित्वम्, अतस्तदन्यथानुग्पत्त्या न जीवत्वाऽजीवत्वादेरेकाधिकरणवृत्तित्वम्, तञ्च तदोपपद्येत यदि जीवाऽजीवोभयपरिमाणविशेषादिरूपस्याश्रवादेर्जीवा-ऽजीवाभ्यां भेदोऽप्यभ्युपेयेतेत्येवमाश्रवादेर्जीवा-ऽजीवाभ्यां भेदः, तत्सङ्गमनं,