________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[२९ . इत्याहुः; तन्न- भूतमूर्तान्यतमत्ववज्जीवाऽजीवाऽऽश्रवाद्यन्यतमत्वस्य जीवत्वा-ऽजीवत्वा-ऽऽश्रवत्वादिसाङ्कर्येऽपि सम्भवाद्, जीवत्वा
च्छेद्यं न्यूनत्वमपीत्याह- तच्चेति- अन्यतमत्वबलाद् व्यवच्छेद्य न्यूनत्वं चेत्यर्थः। अत्र जीवाजीवेत्यादिविभागवाक्ये। असम्भवि नास्ति । इति एतस्माद् हेतोः, न्यूनसङ्ख्याव्यवच्छेदकत्वाऽभावादिति यावत् । अयं जीवाजीवेत्यादिवाक्यात्मकः। जीवाऽजीवेत्यादिविभागस्याऽयुक्तत्वप्रतिपादनपरं वैशेषिकमतं प्रतिक्षिपति- तन्नति निषेधे हेतुमुपदर्शयति- भूत-मूान्यतमत्वदिति- भूतत्वं विहाय मूर्तत्वं मनसि वर्तते, मूतत्वं विहाय भूतत्वमाकाशे वर्तते, इत्येवं भूतत्व-भूर्तत्वयोः परस्परात्यन्ताभावसामानाधिकरण्यम् , पृथिव्यादिचतुष्टये च तयोः सामानाधिकरण्यभित्ति भूतत्व-भूर्तत्वयोः साङ्कर्येऽपि भूतत्वाधच्छिन्नप्रतियोगिताकमेद-मूर्तत्वावच्छिन्नप्रतियोगिताकभेदद्वयावच्छिन्नप्रतियोगिताकभेदरूपस्य भूत-मूर्तान्यतमत्वस्य यथा सम्भवस्तथेत्यर्थः । जीवा-जीवाश्रवरायन्यतमत्वस्य जीवत्वावच्छिन्नप्रतियोयोगिताकमेदा-ऽजीयत्वावच्छिन्नप्रतियोगिताकभेदाऽऽश्रवत्वावच्छिन्नप्रतियोगिताकभेद वन्धत्वावच्छिन्नप्रतियोगिभेद संवरत्वावच्छिन्नप्रतियोगिताकोद-निर्जगत्वावच्छिन्नप्रतियोगिताकभेद मोक्षत्वावच्छिन्नप्रतियोगिताकभेदकूटावच्छिन्न प्रतियोगिताकभेदरूपस्य, अस्य ‘सम्भवाद्' इत्यनेनान्वयः। जीवत्वा-ऽजीवत्वा-ऽऽश्रवत्वादिसाङ्कर्थेऽपीति-जीवत्वं शुद्धचैतन्यलक्षणे मुक्तारमनि वर्तते तत्राऽजीवत्वं नास्ति, अजीवत्वं धर्मास्तिकाधादौ वर्तते, तत्र जीवत्वं नास्ति, मिथ्यादर्शनादिपरिणामलक्षणे जीवपुद्गलाभ्यां कश्चिदभि ने आश्रवे आत्मप्रदेशसंश्लिष्कर्मपुद्गलात्मकबन्धे च जीवन्धमजीवत्वं च वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्ये सत्येकाधिकरणवृत्तित्वलक्षणसाङ्कर्येऽपि जीवत्वा