________________
२८ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् वेन तदवच्छिन्नाभावाभावात्, तच्चात्रासम्भवीत्ययुक्तोऽयं विभागः"
साधारणत्वादित्यन्यतरत्वम्याप्यन्यतमस्वरूपत्वे लाघवमपीति बोध्यम् । तस्य जीवाजीवादिपदार्थान्यतमत्वस्य । कथं दृष्टान्तीकृतपृथिवी घटान्यतमत्वाऽसम्भव इत्यपेक्षायामाह - घटभेदेति-घटभेदवृत्तित्वे सति पृथिवीभेदवृत्ति यद् द्वित्वं तदवच्छिन्नप्रतियोगिता- कात्यन्ताभाव एव पृथिवी घटान्यतमत्वं वाच्यम्, तत्र घटभेदवृत्तित्वस्यानिवेशेऽपि पृथिवीभेदो घटे न वर्तत इति पृथिवीभेदात्यन्ताभावस्य घटान्यपृथिव्यामिव घटात्मक पृथिव्यामपि सत्वात् - तावन्मात्रेणैव घटस्यापि संग्रहे प्रतियोगितावच्छेदककोटौ वैयर्थ्याद् घटभेदवृत्तित्वं न प्रविशति, तथा च पृथिवीभेदत्वस्यैव लघुभूतस्य प्रतियोगितावच्छेदकत्वमिति घटभेदमाश्रयान्तरमुपादाय यत् पृथिवीभेदवृत्तिद्वित्वं तस्य गुरुतया प्रतियोगितानवच्छेदकत्वेन - तदवच्छिन्नाभावाभावात् घटभेद- पृथिवी भेदवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकात्यन्ताभावम्याऽप्रसिद्धत्वादित्यर्थः एतच्च घटभेदपृथिवीभेदइयात्यन्ताभाव एव पृथिवीघटान्यतमत्वमिति पक्षं समाश्रित्य, पृथिवी भेद-घटभेदद्वयावच्छिन्न प्रतियोगिताकभेदस्य पृथिवी घटाज्यतमत्वरूपत्वपक्षे तु तदसम्भवप्रदर्शने 'प्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नाऽभावाऽभावात्' इत्यस्य स्थाने 'प्रतियोगितावच्छेदकता नवच्छेदकत्वेन तदवच्छिन्नावच्छेदकतकप्रतियोगिताकाऽभावाभावात्' इति पाठः स्वयमूह्यः । अन्यतमत्वबलाद् व्यवच्छेर्य -न्यूनत्वं तत्रैव भवति यत्र विभागवाक्ये निर्दिष्टा यावन्तः पदार्था: स्तेषां मध्यात् कस्यचित् पदार्थस्य पदार्थान्तरेष्वन्तर्भावे तावत्पदार्थमतान्यतमत्वं नोपपद्यते, बहिर्भावे चोपपद्यते प्रकृते तु जीवा - जीवादयः सप्त पदार्था येऽभिहितास्तेषां मध्ये आश्रवादेरजीवपदार्थे
पदार्थ वाऽन्तर्भावे सत्यपि बहिर्भूततयाऽभिधानं समस्तीति तावत्पदार्थगतान्यतमत्वं सर्वथा नोपपन्नमेवेति कुतस्तदुबलाद् व्यव
:
,