________________
अनेकान्तव्यवस्थाप्रकरणम् ]
ऽऽधेशवैययन पृथिवीभेदवृत्तिद्वित्वादेः प्रतियोगिताऽनवच्छेदकप्रतियोगिताको मेदोऽन्यतमत्वमिति भेदद्वयावच्छिन्नप्रतियोगिताकमेदत्वभेदत्रयावच्छिन्नप्रतियोगिताकभेदत्वरूपविरुद्धधर्मद्वयाध्यासात् तयोर्भेदः, अन्यत्रापि विरुद्धधर्माध्यासादेव भेदोऽभ्यु. पगम्यते, स च विरुद्धधर्माध्यासो भेदसाधकोऽत्रापि समस्तीति विभाव्यते तर्हि भेदत्रयावच्छिन्नप्रतियोगिताकभेदभेदचतुष्टयावच्छिन्नप्रतियोगिताकभेदयोरपि भेदत्रयावच्छिन्नप्रतियोगिताकमेदत्व-भेदचतुष्टयावच्छिन्नप्रतियोगिताकभेदत्वरूपविरुद्धधर्माध्यासाद् भेदोऽभ्युपगन्तव्य एव, एवं च भेदत्रयावच्छिन्नप्रतियोगिताकभेदस्यान्यतमत्वरूपत्वे भेदचतुष्टयावच्छिन्नप्रतियोगिताकमेदस्यान्यतमत्वातिरिक्तयत्किञ्चिद्धर्मस्वरूपत्वमेवोररीक्रियताम् , एवं मेदपञ्चकावच्छिन्नप्रतियोगिताकमेदादेरपि भिन्नभिन्नधर्मस्वरूपत्वमभ्युपगच्छतोऽपि मतमादरणीयं स्यात् । ननु भेदत्रयाद्यवच्छिन्नप्रतियोगिताकमेद एवान्यतमत्वम् , भेदत्रयादि' इत्यत्रादिपदादू मेदचतुष्टयादेरपि ग्रहणमिति भेदचतुष्टयाद्यवच्छिन्नप्रतियोगिताकभेदानामप्यन्यतमत्वरूपतैवेति चेत् ? तर्हि भेदद्वयावच्छिन्नप्रतियोगिताकमेदस्याप्यन्यतमत्वरूपतैवाऽस्तु । ननु त्रित्वादीनां सर्वेषामपि कटत्वस्वरूपत्वादादिपदमनुपादायाऽपि भेदकूटावच्छिन्नप्रतियोगिताकभेदोऽन्यतमत्वमिति परिभाषा सम्भवति, एकेनैव मेदकूटावच्छिन्न प्रतियोगिताकमेदत्वेन सवषामपि भेदत्रयाद्यवच्छिन्नप्रतियोगिताक भेदानां संग्रहात् , भेदद्वयाद्यवच्छिन्नप्रतियोगिताकभेदस्यान्यतमत्वरूपत्वे आदिपदेन भेदत्रयादेब्रहणस्यादरणे न तेषु सर्वेषु भेदेष्वनुगतस्यैकरूपस्य सम्भवः, एकत्वं परि- . त्यज्य द्वित्वादिसाधारणस्य कस्यचिद् धर्मस्याऽभावादिति चेत् ? नमेदत्वव्याप्यव्यासज्यवृत्तिसङ्घयावदवच्छिन्नप्रतियोगिताकभेदस्यान्यतमत्वरूपतयाऽभ्युपगमात्, व्यासज्यवृत्तिसङ्ख्यात्वस्य द्वित्वादि