________________
२६ ]
[तस्वबोधिनीविवृतिविभूषितम्
न्यूनत्वे पृथिवी घटाऽज्यतमत्ववत् तस्याऽसम्भवात्, षटमेदवृत्तित्वाअत एव मूले सार्यरूपमेव न्यूनत्वं व्यवच्छेद्यतयोक्तम्, न त्व साङ्कर्यरूपं तत् तथोक्तम् , यया दिशा तु न्यूनसङ्ख्यकपदार्थाभ्युपगमे विभाजकोपाधीनां साङ्कर्यमापतति तथाभ्युपगमे साकर्यस्वरूपपर्यवसितं न्यूनत्वं विभागो व्यवच्छिनत्तीति। एतद्वाक्येन जीवाजीवेत्यादिविभागवाक्येन । अन्यतमत्वबलादेव जीवा-ऽजीवा-ऽऽश्रव-बन्धसंबर-निर्जरा-मोक्षान्यतमत्वबलादेव। कथमन्यतमत्वबलान्न्यूनत्वं व्यवच्छेद्यमित्याकाङ्क्षायामाह- न्यूनत्व इति । पृथिवी-घटान्यतमत्ववदितिपृथिवी-घटान्यतमत्वस्य यथाऽसम्भवस्तथेत्यर्थः। ननु पृथिवीमेद-घटमेदोभयावच्छिन्नप्रतियोगिताकमेद एव पृथिवी-घटान्यतमत्वशब्देनात्र विवक्षितः स कथं सङ्गतः ? मेदद्वयावच्छिन्नप्रतियोगिताकमेदस्याऽन्यतरत्वरूपतयैव वैशेषिकादीनामनुमतत्वात, भतोऽत्र 'पृथिवी-घटान्यतरत्ववद्' इत्येवं वक्तुमुचितमिति चेत् ! सत्यम् , किन्तु वैशेषिकोक्त्युल्लेखः स्याद्वादिना ग्रन्थकृता स्वमतावलम्बनेन कृतोऽस्ति, स्वमते चान्यतरत्वस्थानेऽप्यन्यतमत्वस्यक प्रयोगः सिद्धान्ते दृश्यते, अतः सैद्धान्तिकानुमतिमवलम्ब्य 'पृथिवीघटान्यतरत्ववद्' इति वक्तव्ये 'पृथिवी-घटान्यतमत्ववद्' इत्युक्तम् । ननु निष्प्रमाणकमिदं न परीक्षकाणामनुभवपथमधिरोहतीति चेत् ? न- अत्र लाघवानुगृहीतप्रमाणस्य सद्भावात् ; प्रमाणं च अन्यतरत्व मन्यतमत्वरूपमेव तद्भेदग्राहकप्रमाणाऽभावात् , ययोर्भेदग्राहकप्रमाणं नास्ति तयोरमेद एव, यथा- घट-कलशपदवाच्ययोः, अन्यतमत्वतश्च मेदग्राहकप्रमाणाऽभावोऽन्यतरत्वे, तस्मादन्यतरत्वमन्यतमत्वस्वरूपमेव' इत्यनुमानम् , नहि प्रमाणान्तरेणार्थभेदाऽसिद्धौ शब्दभेदमात्रेगार्थमेदः सिद्धयति, तथा सति घट-कलशपदवाच्ययोरपि मेद: सिद्धयेत् , प्रमाणं च तयोभेंदग्राहकं नास्त्येव किश्चित् , यदि ब मेदवयावच्छिन्नप्रतियोगिताको मेदोऽन्यतरत्वं मेनयावच्छिन्न