________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २५ साङ्कर्यरूपं न्यूनत्वमप्येतद्वाक्येनान्यतमत्ववलादेव व्यवच्छेद्यम् ,
विभागाल्लभ्यन्ते तन्न्यूनलमयकाः पदार्थास्तदैव स्युयदि कस्यचित् पदार्थस्य तदन्यपदार्थष्वन्तर्भावः क्रियेत. एवं लति यत्पदार्थेऽन्तर्भाव. स्तत्पदार्थाऽवान्तरपदार्थ एव यदि सनिवेशो भवेत् तदा साङ्कर्य न भवति, यथा-सुवर्णमतिरिक्तं पदाथ सम्भाव्य तदादाय ‘अष्टौ पदार्थाः' इत्येवं विभागवाक्यस्य न सम्भवः, यतः सुवर्णस्य द्रव्यपदार्थेऽन्तर्भावः, एवं च सति अष्टसङ्ख्यान्यूना सप्तसङ्ख्या समस्तीति तद्वयवच्छेदाऽसम्भवात् , अत्र सुवर्णपदार्थस्य द्रव्यपदार्थावान्तरतेजःपदार्थ पवाऽन्तर्भाव इति तथाऽभ्युपगमे द्रव्यत्वावान्तरजातीनां पृथिवीत्यादीनां सायं नापततीति भवति तथाऽन्तर्भावो युत्तः, यदि त्वेकमेव सुवर्णद्रव्यं गुरुत्वात् पीतिमभागमुपादाय पृथिवीस्वरूपमपि स्यात् , अत्यन्तानुच्छिद्यमानजन्यद्रवत्वात् नेज:स्वरूपमपि भवेत् तदा पृथिवीत्व-तेजस्त्वयोविभिन्नाधिकरणवर्तिनोः सुवर्णे सामानाधिकरण्यात् साङ्कर्यमापतेदिति दशमं द्रव्यमेव तदुपेयम् , एवं सति द्रव्यस्य नवसङ्ख्यकतया विभागस्य न सम्भवो भवेत् , यदि तु कस्याश्चित सुवर्णव्यक्तः पृथिव्यामन्तर्भावः कस्याश्चित् तेजस्यन्तर्भाव इत्यभ्युपगम्येत तदाऽपि सुवर्णत्वेन समं पृथिवीत्व-तेजस्त्वयोः सार्य स्यात् , तद्यथा-सुवर्णात्वाभाववति पाषाणादौ पृथिवीत्यं वर्तते, पृथिवीत्वाभाववति तेजस्सुवण सुवर्णत्वं वर्तते, तयोश्च पार्थिव सुवर्ण सामानाधिकरण्यम् , एवं तेजस्त्वस्यापि तेन समं सायं ज्ञेयम् , तथा च यया दिशा न्यूनसङ्ख्यकपदार्थाभ्युपगमे साङ्कय नापतति तादृशन्यूनसङ्ख्यायां सत्यामेव विभागव्याघातः, यतस्तादृशन्यूनत्वे सत्यपि साङ्कर्यस्याऽभावान्यूनसङ्ख्य कानां विभाजकोपाधीनां सम्भवेन तद्गतन्यूनसङ्खयायाः परम्परासम्बन्धेन पदार्थेषु सद्भावान्न्यूनसङ्ख्यकपदार्थः स्थादेवेति,