________________
[ तत्त्वबोधिनीधिवृतिविभूषितम् लाभादाधिक्यं व्यवच्छिद्यताम् । यत् तु विभाजकोपाधीनां मिया विभागवाक्ये तदनुमतम् , 'तच्चाऽसम्भवितत्वात् प्रकृतशङ्काविषय इत्यावेदानायाह - यदिति- यत् पुनरित्यर्थः, इदं यत्पदं तच्चाऽ. त्राऽसम्भवि' इत्येतद्घटकतत्पदेन सह सापेक्षभावमश्चति, तथा य यत् सार्यरूपं न्यूनत्वमन्यतमत्वबलाद् व्यवच्छेद्यं तच्चात्राऽसम्भवीत्यन्वयः। यद्यपि विभागवाक्ये न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वमेव प्रागभिहितं न तु तत्र न्यूनत्वव्यवच्छेदकत्वं सन्निविष्टम् , तथापि पदार्थाः प्रतिव्यक्तिगणनयाऽनन्ता एव, न तु सप्तादिसङ्ख्यकाः, अतो विभाजकोपाधीनां मिथः सार्यरूपं न्यूनत्वं तदा भवेद् यदि कस्यचिद् विभाजकस्याश्रयः कश्चित् तदन्यविभाजकाश्रयः, अपरश्च तस्याश्रयस्तद्भिनविभाजकाश्रयः स्यात्, तथा च यस्य विभाजकस्याश्रयो विभिन्न विभाजकोपाधिद्वयाकलितौ तस्य विभाजकस्य विभिन्न विभाजकोपाधिभ्यां समं साङ्कर्य विभिन्न विभाजकोपाध्योर्वा तेन विभाजकेन समं सांकर्य स्यात् , मिथोऽसंकीर्णानामेव विभाजकोपाधित्वमभिमतं यतः 'सामान्यधर्मव्याप्यपरस्परविरुद्धनानाधर्मेण 'धर्मिप्रतिपादनं विभागः' इति विभागलक्षण विभाजकोपाधीनां मिथो. विरुद्धत्वमन्तरेण न सम्भवति, विरुद्धता चाऽसंकीर्णानामेव न तु संकीर्णानां समानाधिकरणानाम् , अतो यस्य विभाजकस्याश्रयणे विभाजकोपाधीनां मिथः साङ्कर्यरूप न्यूनत्वं स्यात् स विभाजकोपाधि भ्युपेयः, एवं च तं विभाजकोपाधिमुपादाय विभाजकसमष्टिगतसप्तत्वादिसङ्ख्याऽपि न निर्वहेत्, किन्तु तन्न्यूनसवयैव विभाजकोपाधिगता स्यात् , सव च स्वाश्रयवत्त्वसम्बन्धेन पदार्थगताऽपि भवेदित्येवं विभाजकोपाधीनां मिथः साङ्कर्यरूपं न्यूनत्वं पदार्थगतन्यूनसङ्ख्यापर्यवसितम्, तद्वयवच्छेदे पदार्थगतन्यूनसङ्ख्याऽपि व्यवच्छिन्ना भवतीत्याशयेनाह- विभाजकोपाधीनी मिथः पार्यरूपनपीति । इदं चात्र विशिष्यैदम्पर्यम्- यावत्सल्य काः पदार्था