________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३
व विधेयतासमण्याप्तेन जीवाऽजीवाद्यन्यतमत्वेन पदार्थव्यापकत्व
त्वेन जीवाजीवाद्यन्यतमस्य पदार्थलक्षणोद्देश्यस्य तादात्म्यसम्बन्धेन व्यापकत्वस्य जीवाजीवेत्यादिविभागवाक्यतो लाभाजीवाजीवेत्यादि • विभागवाक्ये, आधिक्यं जीवाजीवेत्यादिसप्तपदार्थापेक्षयाऽऽधिक्यम्, व्यवच्छिद्यतां व्यवच्छिन्नं भवतु, निरुक्तसप्तपदार्थाधिकोऽष्टम नवमपदार्थादिको मा भवत्वित्यर्थः, विभिन्नोपस्थितिजननद्वारा शाब्दबोधजनकत्वमेव प्रत्येकं वाक्यघटकपदानां साफल्यम्, तदभावे निरुक्ततात्पर्यग्राहकत्वमात्रेण साफल्यं न चतुरचेतसां साफल्य धियमाधिनोति, 'विधौ न परः शब्दार्थः ' इति विधाने परः- शक्यातिरिक्तोऽलक्ष्योऽर्थः शब्दार्थो न भवतीति मीमांसावाक्यमपि प्रकृते लक्षणां न सहत इति विभागवाक्ये चरमपदे तावदन्यतमत्वविशिष्ट लक्षणास्वीकारोऽनाश्रयणीय एव शब्दमर्यादाभिज्ञानामिति यदि विभाव्यते तदाप्याह- अन्यथा चेति- चरमपदस्य ताबवन्यतमत्वविशिष्टे निरूढलक्षणाया अस्वीकारे चेत्यर्थः । विधेयताभ्रमन्याप्टेनेति प्रकृते विधेयता प्रत्येकं जीवाजीवादिषु सप्तसु वर्तते, जीवा-जावाद्यन्यतमत्वमपि जीवभिन्नत्वे सत्यजीवभिन्नत्वे सत्याश्रभिन्नत्वे सति बन्धभिन्नत्वे सति संवरभिन्नत्वे सति निर्जराभिन्नत्वे सति मोक्षभिन्नो यस्तद्भिन्नत्वलक्षणं तेषु वर्तत इति भवति विधेयतासमव्याप्तम्, ततस्तेन रूपेण जीवाऽजीवादीनां विधेयानां तादात्म्येन पदार्थ रूपोद्देश्यनिरूपितव्यापकत्वस्याऽपि निरुक्तविभागवाक्यतो लाभान्निरुक्तवाक्ये आधिक्यं व्यवच्छिद्यतामित्यर्थः । तथा चाधिकसङ्ख्याव्यवच्छेदक फलकत्वं यथा वैशेषिकादिपदार्थविभागवाक्ये तथा भवदीयतत्त्वविभागवाक्येऽपि ततस्तन्न प्रकृतशङ्काविषयः किन्तु वैशेषिकादिपदार्थविभागवाक्ये यद्दिशा न्यूनसङ्ख्याव्यवच्छेदफलकत्वं तेषामनुमतं तद्दिशैव भवतामपि स्वीयतत्त्व
و