SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ २२] . [ तत्त्वबोधिनी विवृतिविभूषितम् प्रसङ्गात, तदिह 'जीवाऽजीव०' इत्यादिवाक्ये चरमपदे तावदन्यतमत्वेन निरूढलक्षणास्वीकाराद् विधेयतावच्छेदकेन, अन्यथा इति प्रयुज्यते, तत्र वह्निमत्ययोगोलके प्रत्यक्षेणैव धूमवतो बाघ इति 'असति बाधके' इत्यस्यामावाद् वह्निमत्त्वावच्छेदेन धूमवतोऽन्वयो न भवति, किन्तु वह्निमत्त्वसामानाधिकरण्येनैव, विधेयताऽनवच्छेदकरूपेणापि व्यापकत्वलामे तु द्रव्यत्वेन रूपेण धूमवतो बाधाऽभावात् तद्रूपेण धूमवतो वह्निमव्यापकत्वस्य सम्भवादवच्छेदकावच्छेदेनान्वयस्यानिष्टस्य प्रसङ्गादित्यर्थः। भवतु सर्वत्र विभागवाक्ये न्यूनाधिकसङ्घयाव्यवच्छेदकत्वं प्रकृते ततः किमित्यपेक्षायामाह- तदिहेति। तत् ततः, निरुक्तरीत्या व्यापकत्वं स्वीकरणीयमिति हेतोरिति यावत् । ‘इह' इत्यस्य स्पष्टीकरणम्-जीवाऽजीवेत्यादिवाक्ये इति- “जीवा-जीवा-ऽऽश्रव बन्ध संवर-निर्जरा-मोक्षास्तत्त्वम्' इति विभागवाक्ये इत्यर्थः, अस्य 'आधिक्यं व्यवच्छिद्यताम्' इत्यत्रान्वयः। चरमपदे ‘जीवाऽजीवाऽऽश्रव-बन्ध-संवर-निर्जरामोक्षाः' इति समस्तवाक्यघटकाऽन्त्यमोक्षपदे, अस्य निरूढलक्षणा' इत्यनेनान्वयः। तावदन्यतमत्वेन जीवाजीवाश्रव-बन्ध-संवर-निर्जरामोक्षान्यतमत्वेन । निरूढलक्षणेति- लक्षणा द्विविधा- आधुनिकी निरूढा चेति, तत्र प्रयोजनवती लक्षणा आधुनिकी, प्रयोजनाsभावाचात्र न तस्याः स्वीकारः, अनादितात्पर्यमूलिका लक्षणा निरूढा, तस्या एवात्र स्वीकारः, 'मोक्षपदं जीवाजीवाद्यन्यतमत्वविशिष्टबोधेच्छयोच्चरितम्' इत्येवं तात्पर्यग्रहे निरूढलक्षणामूलीभूते निमित्तत्वाच्च न जीवाऽजीवादिपदानां वैयर्थ्यम् , यदा च निरुक्तान्यतमत्वविशिष्टे मोक्षपदस्य लक्षणा तदा तत्त्वपदवाच्यं पदार्थमुद्दिश्य निरुक्तान्यतमत्वविशिष्ट एव 'जीवाऽजीवा०' इत्यादिविभागवाक्येन विधीयत इति जीवाऽजीवाद्यन्यतमत्वं भवति विधेयतावच्छेकम् , अतो विधेयतावच्छेदकेन जीवाजीवाद्यन्यतमः
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy