________________
अनेकान्तव्यवस्थाप्रकरणम् ]
धूमवान्' इत्यादौ द्रव्यत्वादिना धूमवदादिव्यापकत्वलाभ
[ २१
,
(
नुपस्थितविधेयता समव्यातधर्मावच्छिन्नं वोदेश्यतावच्छेदकनिरूपितव्यापकत्वं समभिव्याहारविशेषलक्षणाकाङ्क्षाबलाद् विधेये संसर्गघटकतया भासते, अनुभवमुखप्रेक्षाविदग्धो हि परीक्षको नाऽनुभवमवधूयावतिष्ठत इति अत एवोक्तम्- अवश्यं स्वीकर्तव्य इति । वमनङ्गीकारेऽनिष्टप्रसञ्जनमावेदयति अन्यथेति विधेयतावच्छेदकेन विधेयतासमव्याप्तेन वा विधेयस्य व्यापकत्वलाभानङ्गीकारे, येन केनचिद् रूपेण विधेयस्य व्यापकत्वाङ्गीकारे वेत्यर्थः । ' वह्निमान् धूमवान् इत्याविति - 'उदेश्यवचनं पूर्व विधेयवचनं ततः इति वचनाद् वह्निमानित्युद्देश्यवचनं धूमवानिति विधेयवचनम्, एवं च निरुतवाक्येन वह्निमन्तमुद्दिश्य धूमवतो विधानं लभ्यते; तच्च न सम्भवति, वह्निमवलक्षणोद्देश्यतावच्छेदकव्यापकत्वस्य धूमवति विधेये धूमवत्त्वात्मक विधेयतावच्छेद केनाऽसम्भवादिति निरुक्तवाक्यं शब्दमर्यादाभिज्ञा न प्रयुञ्जते, यदि तु येन केनचिद् रूपेण व्यापकत्वलाभः स्यात् तदा वह्निमत्त्वव्यापकत्वं द्रव्यत्वेन रूपेण धूमवतोऽपि समस्तीति उत्पन्ना अपि निरुक्तवाक्यं प्रयुश्रीरन्नित्यर्थः यदि तु 'नीलो वटः इत्यत्र नीलस्य विधेयत्वेऽपि तद्वचनं पूर्वे समस्त्येवेति 'उद्देश्यवचनं पूर्वम्' इति वजस्य नाssदरस्तदा 'वह्निमान् धूमवान्' इत्यादौ धूमन्तमुद्दिश्य वह्निमतो विधानं सम्भवति विधेयतावच्छेदकेन वह्निमत्त्वेन रूपेण वह्निमतो धूमवव्यापकत्वमपि समस्तीति ' वह्निमान् धूमवान्' इति प्रयोगः प्रामाणिक एवेति विभाव्यते, तदापि वह्निमत्रेनैव व्यापकत्वस्य लाभस्तत्रेष्ठो न तु द्रव्यत्वादिना, उक्तनियमाभावे तु द्रव्यत्वादिना 'धूमवदादिव्यापकत्वलाभस्याऽनिष्टस्याऽपि प्रसङ्गादित्यर्थः अथवा चह्निमान् धूमवान्न भवतीति कश्चिद् भ्रान्तोऽवधारयति तं प्रति चह्निमान् धूमवान् सम्भवत्यपीत्यभिप्रायेण ' ' वह्निमान् धूमवान् '