________________
२० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् लाभो व्युत्पत्तिमर्यादयात्रश्यं स्वीकर्तव्यः, अन्यथा 'वह्निमान् भावस्थल एव तु चरमपदस्य तावदन्यतमत्वविशिष्टे निरूढलक्षणाऽनङ्गीकारपक्षे विधेयतावच्छेदकानां विभिन्नानां परस्परविरुद्धानामुदेश्यतावच्छेदकव्यापकतावच्छेदकत्वं न सम्भवतीत्यतो विधेयतासमव्याप्तरूपेण विधेयस्य व्यापकत्वलाभ इत्युक्तिरपि तत्र' इत्यस्य 'विभागवाक्ये' इत्यर्थकतां पुष्णातीति। व्युत्पत्तिमर्यादयेतिव्युत्पत्तिश्चात्र 'असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयाऽन्वयः' इतिनियमलक्षणा, उक्तनियमनिर्वाहककार्यकारणभावरूपावा, कार्यकारणभावश्च- उद्देश्यातावच्छेदकावच्छेदेनोद्देश्यविशेष्यकविधेयप्रकारकान्वयवोधं प्रांत उद्देश्य-विधेयवोधकपदलमभिव्याहारज्ञानं कारणमिति, यद्यपि शाब्दबोधे पदजन्योपस्थिति विषयस्यैव प्रकारविधया भानम्, अत एव प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमित्येवमुपस्थितिशाब्दबोधयोः कार्यकारणभावः, तथा च विभागवाक्येऽन्यत्र बोद्देश्यविधेयभावस्थले व्यापकताबोधकपदाऽभावात् पदजन्योपस्थितविषयस्योद्देश्यतावच्छेदकव्यापकत्वस्य विधेयांशे प्रकारविधया भानं न सम्भवति, तथापि उद्देश्यतावच्छेदकन्यापकविधेयप्रतियोगिकतादात्म्यस्य संसर्गविधया भानं तादृशसमभिव्याहार क्षणाकालावलात् स्वीक्रियत इति निरुक्तसंसर्गघटकतयोक्तव्यापकत्वस्य भान सम्भवतीत्येतदर्थावगतये 'व्युत्पत्तिमर्यादया' इत्यत्र मर्यादापदोपादानम् , अन्यथा 'व्युत्पत्त्या' इत्येव लाघवादुच्चारणीयं स्यात् , तथा च यत्र यादृशो बोधो लौकिकपरीक्षकाणामनुभवपथमवतरति तत्र तादृशबोधनिर्वाहिकव व्युत्पत्तिराद्रियते नाऽतथाभूतेति यत्रैकविध एव विधेयस्तत्र पदशक्त्युपस्थितविधेयतावच्छेदकावच्छिन्नमेवोद्देश्यतावच्छेदकनिरूपितव्यापकत्वं संसर्गविधया विधेये भासते, विभागवाक्यप्रभवबोधे तु पदलक्षणोपस्थितविधेयतावच्छेदकावच्छिन्नं पदा