________________
अनेकान्तव्यवस्थाप्रकरणम् ] तावच्छेदकरूपेण विधेयतासमव्याप्तरूपेण वा विधेयस्य व्यापकत्वविधेयस्य व्यापकत्वलाभो व्युत्पत्तिमर्यादया, एतावता विभागवाक्ये किमायातं यद्वलाद् विभागवाक्येऽधिकसङ्ख्याव्यवच्छेदफलकस्वं सिद्धयेदित्याशङ्काऽबाधितप्रसरा स्यात् , 'तत्र' इत्यस्योपादाने व उद्देश्यविधेयभावस्थले विभागवाक्ये विधेयतावच्छेदकरूपेण विधेयतासमव्याप्तरूपेण वा विधेयस्य व्यापकत्वलाभो व्युत्पत्तिमर्यादयेत्येवं यथाश्रुतान्वयबोध एवोक्ताशङ्का नोत्थानमप्यहतीति, यद्यपि विभाग बलादेव न्यूनाधिकसङ्ख्याव्यवच्छेदतः प्रतिनियतसप्तत्वादिसङ्ख्यावगतिः स्यादेव तथाऽपि यत्र विभागवाक्ये स्पष्टार्थमपि सप्तादि पदमुपगत्तं तत्र सप्तत्वादिकमपि विधेयकोटिसन्निविष्टत्वाद् विधेयतावच्छेदकं भवतीति तत्र विधेयतावच्छेदकसप्तत्वादिरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वं विभागवाक्येऽपि सम्भवत्येव, सप्तत्वस्य पर्याप्त्या प्रत्येकाऽवृत्तित्वेऽपि सम्बन्धान्तरेण प्रत्येकवृत्तित्वमपि सम्भवति, प्रत्येकाऽवृत्तिधर्मस्य समुदायाऽवृत्तित्व. नियमतः पर्याप्तिसम्बधेनाऽपि प्रत्येकवृत्तित्वं तस्य सम्भवत्येक, यत्रापि विभागवाक्ये सप्तादिपदस्य नोपादानं तत्रापि चरमपदस्य तावदन्यतमत्वविशिष्टे निरूढलक्षणया तावदन्यतमत्वस्य विधेयतावच्छेदकतया भानं भवत्येवेति विधेयतावच्छेदकेन तेन विधेयस्य व्यापकत्वं विभागवाक्येऽपि, यदि च चरमपदे न तावदन्यतमत्व. विशिष्ट निरूढलक्षणा, तदापि विधेयतासमव्याप्तेन तावदन्यतमत्वेन विधेयस्योद्देश्यतावच्छेदकव्यापकत्वं भविष्यत्येव, 'पृथिवी गन्धवती, वह्निरुष्णः, शीतं जलम् , द्रव्यं गुणवद्' इत्यादौ सर्वत्रकविधस्यैव विधेयत्वेन विधेयतावच्छेदकरूपेणैव विधेयस्योद्देश्यतावच्छेदकव्यापकत्वम् , विभागवाक्य एव तूद्देश्य-विधेयभावस्थले नानाविधस्य विधेयत्वम् , तकविधायां विभजनमेव न स्यात् , नहि समवायस्यैकविधस्य विभागो भवतीति विभागवाक्यात्मकोद्देश्य-विधेय