________________
१६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तन्त्रान्तरीयविभागवाक्ये न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वस्य सर्वसिद्धत्वेऽपि स्याद्वादिनो विभागवाक्ये यदि न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वं सर्वसिद्धं न भवेत् तर्हि ‘जीवाऽजीव०'इत्यादिविभागवाक्ये न्यूनसङ्ख्याव्यवच्छेदकत्वाभावेऽप्ययुक्तत्वं न भवे. देवेति न्यूनत्वव्यवच्छेदकत्वाभावतो 'जीवा-ऽजीव०'इत्यादि विभागवाक्यस्य 'अयुक्तोऽयं विभागः' इत्यनेनायुक्तत्वस्याभिधानमसङ्गतं स्यादतः ‘सर्वत्र' इति ‘विभागवाक्ये' इत्यस्य विशेषणम्, तथा च यत्र यत्र विभागवाक्यत्वं तत्र तत्र न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वम्' इति व्याप्तिः, एवं च न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वस्थ व्यापकस्याभावाद् ‘जीवा-ऽजीव० 'इत्यादिवाक्ये व्याप्यं विभागवाक्यत्वमपि न स्यादेवेत्येवं भवत्ययुक्तत्वम् । विभागवाक्य इति- 'सामान्यधर्मव्याप्यपरस्परविरुद्धनानाधर्मेण धर्मिप्रतिपादन विभागः' इत्येवंलक्षणलक्षितविभागात्मकवाक्ये इत्यर्थः। ग्रन्थादौ विभागवाक्यस्याकरणेऽपि ग्रन्थकर्तृबुद्धिस्थानां निरूपणीयानां पदार्थानां यत्क्रमेण निरूपणं साङ्गत्यमञ्चति तत्क्रमेण तेषां निरूपणमध्येतृणां तत्तत्पदार्थावबोधनिबन्धनं स्यादेवेत्याशङ्काशङ्कनिवर्तकं न्यूनाधिकसङ्घयाव्यवच्छेद फलकत्वम् ' इत्युक्तम्, विभागेऽकृते निरूपितानां पदार्थानां मध्यात् केचित् पदार्थाः पदार्थान्तरेषु निरूपितेष्वन्तर्भूता एव विशिष्याऽवगतये पार्थक्येन पुनरपि निरूपिता इत्येवं पदार्थानां न्यूनसख्याशङ्का समुदियात्, तथा अन्येऽपि पदार्था अनिरूपिता अप्येतद्दर्शने भविष्यन्ति, किन्तु तन्निरूपणालामादध्येतॄणां तद. वगमस्यानुपयोगित्वमिति प्रतिसन्धानाद् वा नात्र निरूपिता इत्येवं पदार्थानामधिकसङ्ख्याशङ्काऽपि स्यादेवेति निरुक्तशङ्काद्वयनिवर्तनाय पदार्थयत्तावधारकमादिवाक्यं क्रियत इति, विभागवाक्यं यदि पदार्थस्य सप्तधा विभजनस्वरूपम्, तत्र कस्यचित् पदार्थस्य पदार्थान्तरान्तर्भूतत्वे षडेव पदार्थाः स्युः, एवं सति न्यूनसङ्ख्या स्यात् किन्तु तदान्तर्भूतपदाथगताऽसाधारणधर्मस्य विभाजकस्य यत्रान्त