________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१५ संसारस्याऽऽश्रवस्य च तत्कारणतयाऽभिधानमित्ययं संसारनिवृत्तिमोक्षप्रवृत्तिप्रगुणः प्रघट्टक इत्यपि युक्तं पश्यामः। न चैवं सम्प्रदायातिक्रमः, अनेकनयसमूहात्मकत्वाद् भगवत्प्रवचनस्येति सूक्ष्ममीक्षणीयम् ॥ __अत्र वैशेषिका:---" सर्वत्र विभागवाक्ये न्यूनाधिकसंख्याकारणाऽऽश्रवस्याभिधानं तज्ज्ञानार्थम् , संसारस्तु बन्ध एवेति बन्धाभिधानं संसाराभिधानमेव, एवं च मुख्यप्रयोजनस्य मोक्षस्याभिधानस्येव मुख्यहेयस्य संसारस्याभिधानस्यावश्यकत्वेऽपि न क्षतिरित्याह- बन्धपदेनेति, अस्य 'अभिधानम्' इत्यनेनान्वयः, 'संपारस्य' इत्यस्यापि तत्रान्वयः, 'भाश्रवस्य' इत्यस्यापि तत्रान्वयः। तत्कारणतया बन्धात्मकसंसारकारणतया। एवं च संसारस्य संसारनिवृत्यर्थ पृथगभिधानम्, मोक्षप्रवृत्त्यथ च मोक्षस्य पृथगभिधानमिति तद्घटितसप्ततत्त्वाभिधानलक्षणप्रघट्टकः संसारनिवृत्ति-मोक्षप्रवृत्तिप्रगुण इत्याह- इत्ययमिति। मोक्षस्यैवाग्मिन् सूत्रेऽभिधानं न संसारस्य, एवं मोक्षकारणद्वयस्येव संसारकारणद्वयस्याप्यभिधानमिति च सम्प्रदायविरोध इत्याशङ्कय प्रतिक्षिपति- न चैवमिति- एक नयमाश्रित्य सम्प्रदायमतम् , नयान्तरं चाश्रित्येदमिति सम्प्रदायातिक्रमेऽपि प्रमाणभूतस्याद्वादातिकमाभावात् । येनैव नयेनाभ्युपगमः सम्प्रदायस्य तेनैव तदन्यथाऽभ्युपगमो यत्र भवेत् तदा सम्प्रदायातिक्रमो भवेत् , न चैवम् , किन्तु तदन्यनयेनैवेत्थमभ्युपगम इति सम्प्रदायातिक्रमस्यैवाभावादिति प्रतिक्षेपहेतुमुपदर्शयति- अनेकेतिउपदर्शितार्थाभिप्रायक एवायं ग्रन्थः ॥ ____ अत्र जीवा-जीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षभेदेन सप्तधा तत्वस्य विभागकरणे, 'वैशेषिकाः' इत्यस्य 'आहुः' इत्यनेन सम्बन्धः। 'सर्वत्र' इत्यारभ्य 'अयुक्तोऽयं विभागः' इत्यन्तं वैशेषिकाणां वचनम् ।