________________
१४]
. [ तत्त्वबोधिनीविवृतिविभूषितम् . वस्तुतः संवर-निर्जरयोर्मोक्षे दण्डचक्रादिन्यायेन हेतुता, न तु तृणा-ऽरणि-मणिन्यायेनेति बोधयितुं द्वयाभिधानम् ; बन्धपदेन कारणमित्येकस्यैव संसारकारणस्याभिधानं न तु संसारकारणद्वयस्येति स्वाभिप्रायमुपदर्शयति- वस्तु न इति । यदि मोक्षं प्रति संवरनिर्जरयोस्तृणा-ऽरणि-मणिन्यायेन कारणत्वम् , अर्थाद् विजातीयवह्नि प्रति तृणस्य कारणत्वम् , विजातीयवह्नि प्रति अरणेः कारणत्वम् , विजातीयवह्नि प्रति मणेः कारणत्वं नैयायिकमते, स्वमते तु तृणाऽरणि मणीनां वह्नयनुकूलशक्तिमत्त्वेन कारणत्वम् , एवं च केवलात तृणात्, केवलाद् अरणेः, केवलाच्च मणेर्वह्वेरुत्पत्तिः, एवमेव मोक्षं प्रति संवर-निर्जरयोः कारणत्वम् , तदा केवलादपि संवरान्मोक्षः, केवलाया अपि निर्जरातो मोक्ष इति तयोरेकस्याभिधानेऽपि तदवगमतस्तत्सम्पादनेन मोक्षावाप्तिरिति मोक्षकारणतदुभयाभिधानमनतिप्रयोजनकम् , न चैवम् , किन्तु यथा घटं प्रति दण्ड-चक्रादीनामन्योन्यसहकारिभावापन्नानां कारणत्वमिति न केवलाद् दण्डात् , केवलाच्चक्रात् , केवलात् कुलालादितो वा घटोत्पत्तिः, किन्तु दण्डचक्रादियावद्घटकारणसमूहादेव, तथा संवर-निर्जरयोः परस्परसहकारिभावापन्नयोर्मोक्षं प्रति कारणत्वमिति न केवलात् संवरात्, केवलाया वा निर्जराया मोक्ष इति संवर-निर्जरयोरेकस्याभिधाने तदेकज्ञानतस्तदेकसम्पादने न तन्मात्रानुष्ठानतो मोक्ष इति तदुभयसम्पादनार्थ तदुभयज्ञानस्यावश्यकत्वे तदर्थ मोक्षकारणतदुभयज्ञानस्यावश्यकमित्याह- संवर-निर्जरयोरिति । द्वयाभिधानं मोक्षकारणसंवरनिर्जराछयाभिधानम्। उक्तदिशा संसारकारणाऽऽश्रव-बन्धोभयाभिधानोपपादनं तु न सम्भवति, दण्ड-चक्रादिन्यायेन संसारं प्रति आश्रव बन्धयोः कारणत्वेऽपि तदेकाभिधानतस्तदेकशानेन तदेको. च्छेदे तद्रूपसहकारिविकलात् तदन्यकारणान्न संसार इत्यनागतजन्माद्यभावरूपायाः संसारहानेः सम्भवात्, किन्त्वेकस्यैव संसार