________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१३ श्रौत्सर्गिकत्वात् , कारणद्वयज्ञाने च मध्यमजिज्ञासापरिपूर्तः। तथाऽपि मोक्षस्योपादेयतयेव हेयतया संसारस्यापि पृथगभिधानं काय स्यादिति चेत् ? न-अनागतजन्माद्यभावरूपसंसारहानेः स्वातन्त्र्येणाऽसाध्यतया तद्धेतूच्छेदे पुरुषव्यापाराभ्युपगमेन तद्धत्वोरेवाभिधानात् , संसारहानेर्मोक्षस्वरूप एवानुप्रवेशान्मोक्षोपस्थितौ संसारस्य प्रतिपक्षत्वेनावश्योपस्थितिकतया पृथगभिधानस्यानतिप्रयोजनत्वाचेति सम्प्रदायपरिष्कारः। संसारो हेय इति तज्ज्ञानार्थ तदभिधानमावश्यकमिति तमुपादाय 'अष्टौ तत्त्वानि' इति वक्तव्यम् , यदुच्छेदार्था सर्वा प्रवृत्तिः स कथं न प्रदर्यतेति वाचोयुक्तेस्तत्रापि सम्भवादित्याशङ्कते . तथापीति । संसारहानिन स्वातन्त्र्येण साध्येति तद्धर्मिककृतिसाध्यत्वज्ञानासम्भवान्न साक्षात् तदर्था प्रवृत्तिः सम्भवति, किन्तु संसारकारणोच्छेद एव पुरुषप्रयत्नसाध्य इति तद्धर्मिककृतिसाध्यत्वज्ञानात् संसारकारणोच्छेदार्थव प्रवृत्तिरिति संसारकारणस्यैव पृथगभिधानमावश्यकमिति समाधत्ते- नेति । अनागतेति- अनागतजन्माद्यभावरूपा या संसारहानिस्तस्या इत्यर्थः। तद्धेतूच्छेदे अनागतजन्मादिरूपसंसारहेतूच्छेदे। तद्धत्वोरेव संसारकारणयोराश्रव बन्धयोरेव । ज्ञानावरणाद्यष्टविधकर्मभिः सम्बन्ध एवात्मनः संसारः, तद्वियुक्तात्मस्वरूपावाप्तिरेव मोक्ष इति मोक्षस्वरूपे संसारहानेरनुप्रवेशान्मोक्षोपस्थितौ तत्प्रतिपक्षतया संसारस्याप्यवश्यमुपस्थितेः सम्भवेन न संसारोपस्थितये पृथक् संसाराभिधानस्याऽऽवश्यकतेत्याह- संसार हानेरितिसाम्प्रदायिकमतेन संसार-मोक्षकारणद्वयाभिधानस्यावश्यकत्वम् , संसाराभिधानस्यानावश्यकत्वमुपपादितम् ।
इदानीं मोक्षकारणद्वयाभिधाने युक्त्यन्तरम्- बन्ध एव संसार इति बन्धेऽभिहिते संसारोऽभिहित एव, आश्रवस्तु एक एव संसार