________________
१२]
[ तत्त्वबोधिनीविवृतिविभूषितम् यदर्था सर्वा प्रवृत्तिः, स कथं न प्रदश्यतेति युक्तं पञ्चानामप्युपादानम् । अथ हेयोपादेययोरेककारणाभिधानेनैव चरितार्थत्वे किं द्वयाभिधानेनेति चेत् ? न- एककारणे ज्ञाते कारणान्तरजिज्ञासाया कारणविशेषणमुक्तम् । ननु भवतूक्तदिशाऽऽश्रवादीनां पृथगुपादानस्य युक्तता, मोक्षस्य पार्थक्येनाभिधानं न कर्तव्यमेवेत्यत आहयत् विति। स मोक्षः। पञ्चानाम् आश्रव-बन्ध-संवर-निर्जरा-मोक्षाणाम् । ननु हेयस्य संसारस्यैकं कारणमाश्रवो बन्धो वा, उपादेयस्य मोक्षस्यैकं कारणं संवरो निर्जरा वाऽभिधीयतां तावतैव संसारमोक्षकारणपरिज्ञानसम्भवेन संसारकारणद्वयस्य मोक्षकारणद्वयस्य च पार्थक्येनाभिधानमफलमित्याशङ्कते- अथेति । हेयोगदेययोः संसारमोक्षयोः। द्वयाभिधानेन संसारकारणद्वयाभिधानेन मोक्षकारणद्वयाभिधानेन च। संसारकारणस्यैकस्य मोक्षकारणस्य चैकस्य ज्ञाने वृत्तेऽपि संसारस्य किं कारणान्तरम् ! मोक्षस्य किं कारणान्तरम् ? इति जिज्ञासा स्यादेव, तन्निवृत्तये संसारकारणान्तरं मोक्षकारणा. न्तरं चाभिधातव्यं स्यात् , कारणद्वयाभिधाने च यद्यन्यदपि तृतीयं कारणं भवेत् तर्हि द्वितीयकारणवतू तृतीयकारणमप्यभ्यधास्यद् आचार्यः तदनभिधानाच नास्ति तृतीयं कारणमिति ज्ञानसम्भवेन न तदनन्तरं कारणान्तरजिज्ञासासम्भव इत्याशयेन संसार-मोक्षकारणद्वयाभिधानमिति समाधत्ते- नेति । मध्यमजिज्ञासापरिपूर्तेरिति-- सूक्ष्ममतेः प्रमातुरेककारणाने सति कारणान्तरज्ञानं स्वयमपि सम्भवति, जडमतेश्च एककारणाने वृत्ते ऊहापोहरहितत्वात् तावतैव कृतकृत्यत्वेन कारणान्तरजिज्ञासैव तावन्नावतरतीति न तन्निवृत्त्यथ द्वितीयकारणाभिधानस्यावश्यकता, यस्तु नात्यन्तप्रकृष्टमति प्यत्यन्तापकृष्टमतिः, एतादृशस्य मध्यमस्य प्रमातुः कारणद्वयज्ञाने सति विषयनिष्पत्त्या जिज्ञासापरिपूत्तरित्यर्थः। यथा च मोक्ष उपादेय इति तत्परिज्ञानार्थं पृथक तदभिधानमावश्यकं तथा