________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[११ आश्रवो मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स च क आत्मानं पुद्गलाँश्च विहाय ?, बन्धश्वाऽऽत्मप्रदेशसंश्लिष्टकर्म पुद्गलात्मकः संवरोऽप्यात्मन एवाऽऽश्रवनिरोधलक्षणो देश-सर्वनिवृत्तिपरिणामः, निर्जरा तु पार्थक्याऽऽपन्नजीव-पुद्गलदशैव मोक्षोऽपि समस्तकर्मरहित आत्मैवेति ? सत्यम्- इदमित्थमेव, किन्त्विदं शास्त्रं मुमुक्षु. शिष्यप्रवृत्तये, सा च मुक्ति-संसारयोः कारणयोर्भेदेनाभिधानं विना न स्यादित्याश्रवो बन्धश्चेति द्वयं मुख्यं संसारकारणम्, संवरो निर्जरा चेति द्वयं मुख्यं मोक्षकारणमुपात्तम् । यत् तु मुख्य प्रयोजनं मोक्षो
विस्तरतस्तत्त्वार्थस्य षष्ठाध्याये, तत एव च मिथ्यादर्शनादिरूपपरिणामस्याऽऽश्रवत्वावगतिः कार्या। स च मिथ्यादर्शनादिरूपपरिणामश्च, अन्यत् स्पष्टम् । आश्रवादीनां जीवाजीवाभिन्नत्वमभ्युपेत्य समाधत्ते- सत्यमिति । इदमित्थमेव यद् यथा भवताऽ-भिहितं तत् तथैव। नेन्वेवं 'जीवाजीवास्तत्त्वम्' इत्येव वक्तव्यं स्यात् , तत्राहकिन्विति । सा च मुमुक्षुशिष्यप्रवृत्तिश्च । 'मुक्ति-संसारयोः कारणयोः' इति स्थाने 'मुक्ति-संसारकारणयोः' इति पाठो युक्तः, संसारकारणहानार्था मुक्तिकारणोपादानार्था च मुमुक्षूणां प्रवृत्तिः 'इदं संसारकारणं ममाऽनिष्टसाधनम् , तद्धानं च ममेष्टसाधनम्' इति ज्ञानमन्तरेण च न सम्भवति, तथाभूतज्ञानं च विशिष्य संसारकारण-मुक्तिकारणयोर्शानमन्तरा न सम्भवतीति संसारकारणस्य मुक्तिकारणस्य च ज्ञानार्थ भेदेन संसारकारण-मुक्तिकारणयोरभिधानमावश्यकमित्यर्थः। संसारकारणमाश्रवो बन्धश्च, मुक्तिकारणं संवरो निर्जरा चेत्यतश्चतुर्णामाश्रवादीनां पाथक्येनाभिधानमित्याहआश्रव इति । अन्यान्यपि परम्परया संसारकारणानि मुक्तिकारणानि च, तेषां पार्थक्येनाभिधानं मा नाम प्रापदित्येतदर्थ 'मुख्यम्' इति