________________
१०]
[ तत्त्वबोधिनीविवृतिविभूषितम् जीवाः' इति प्रयोगयोरपि साधुत्वापत्तेः, उपदर्शितनीत्या तु बहुत्वाबच्छेदेनैवैकत्वस्य क्लप्तत्वात् 'करि-तुरग-रथाः सेना' इत्यादाविव बहुवचनावरुद्धे एकवचनावरुद्धस्योद्देश्य-विधेयभावेनान्वयो नानुपपन्न इति दिक् ॥
ननु कथं सप्तैव तत्त्वानि ? पुण्य-पापयोरप्यधिकयोः सत्त्वादिति चेत् ? न-बन्ध एव तयोरन्तर्भावमभिप्रेत्य भेदेनानभिधानात् । हन्त, तर्हि 'जीवाऽजीवास्तत्त्वम् ' एतावदेव वाच्यं स्याद्, आश्रवादीनामपि पञ्चानां जीवाजीवयोरभिन्नत्वात् , तथाहि
सम्भवेन 'उपयोगवन्तो जीवः' इति प्रयोगोऽपि साधुः स्यादिति तद्भयात् स्वाभाविकबहुत्वविशिष्टे नैकत्वान्वय इत्येव स्वीकर्तव्यमिति न टीकाकारसमाधानं युक्तमित्यर्थः। उपचरितैकत्वस्य तु बहुत्वावच्छेदेनोद्देश्य-विधेयभावेनान्वयस्त्वस्मदभिमतोऽन्यत्र दृष्ट एवेति तथा समाधाने न काप्यनुपपत्तिरित्याह-उपदर्शितनीत्या विति- 'वस्तुतः०' इत्यादिदर्शितदिशा पुनरित्यर्थः।
न्यूनाधिकसङ्ख्याव्यवच्छेदफलो हि विभागो भवति, प्रकृते तु पुण्य-पापयोरधिकयोः सत्त्वात् तत्वस्य सप्तधा विभजनमसङ्गतमिति शङ्कते- नन्विति । क्लप्ते बन्धपदार्थे एव पुण्यापुण्ययोरन्तर्भावान तयोरधिकतेत्यधिकसङ्ख्याव्यवच्छेदस्यात्रापि सम्भवान्नोक्तविभागासामञ्जस्यमिति प्रतिक्षिपति-नेति। तयोः पुण्य-पापयोः। न चैवं धर्मास्तिकायादीनामिवाऽऽश्रवादीनामपि जीवभिन्नत्वेनाजीवपदार्थ एव, जीवधर्मतया जीवपदार्थ एव वाऽन्तर्भावसम्भवाद् जीवा ऽजीवमेदेन द्विविधतयैव तत्त्वविभजनं न्याय्यमिति शङ्कते- हन्तेति । माश्रवादीनाम् आश्रव-बन्ध-संवर निर्जरा-मोक्षाणाम्। आश्रवादीनां पञ्चानां जीवाजीवाभिन्नत्वं भावयति- तथाहीत्यादिना। आश्रवनिरूपणं