________________
अनेकान्तव्यस्थाप्रकरणम् ]
वस्तुतः सकलज्ञानसाध्यैकप्रयोजनकत्वलक्षणमेकत्वम् , लक्षणभेदज्ञानजनितपरस्परभेदज्ञानविषयत्वरूपं बहुत्वं चाऽऽदायकवचनबहुवचने सूत्र-भाष्ययोर्वोध्ये, स्वाभाविकैकत्वबहुत्वयोर्नयभेदाऽऽश्रयणेन प्रकृतसमाधाने च ‘उपयोगवन्तो जीवः, उपयोगवन्तो
सूत्रे एकवचनस्य भाष्यैकवचन-बहुवचनयोरुपदर्शनस्य संगमनं स्वयं करोति- वस्तुत इति। सकलेति- जीवाजीवादिसप्तविधपदार्थज्ञानसाध्यमुक्तिलक्षणैकप्रयोजनकत्वरूपमेकत्वं सप्तसु पदार्थषु वतत इति तदर्थमुपादाय सूत्र भाष्ये च 'तत्त्वम्' इत्येकवचनम् । लक्षणभेदेति- जीवस्य लक्षणमायद अन्यच्चाजीवादेर्लक्षणमित्येवं लक्षणभेदज्ञानेन जनितं यजीवादिपदार्थानां परस्परभेदज्ञानम्-'जीवादजीवो भिन्नः, अजीवाजीवो भिन्नः, एवमास्त्रवादिः' तादृशज्ञानविषयत्वरूपं सप्तसु पदाथषु बहुत्वमिति तदर्थमुपादाय भाष्ये 'तत्त्वानि' इति बहुवचनं बोध्यमित्यर्थः। स्वाभाविकैकत्व-बहुत्वे आदाय भाष्यनिर्दिष्टैकवचन बहुवचनयोरुपपत्तिसम्भवे उपचरितैकत्व-बहुत्वे उपादाय तत्समर्थनं किमर्थमित्यपेक्षायामाह- स्वाभाविकैकन्द-बहुन्दयो ति । न्यभेदाश्रयणेनेति-सत्तायास्तत्त्वपदवाच्यायाः प्रतिवस्तुभेदानादरणनय प्रतिवस्तुभेदाऽऽदरण नयाश्रयणेनेत्यर्थः। प्रकृतसमाधाने टीकाकारदर्शितैकवचन-बहुवचनोपपादनलक्षणसमाधाने । चस्त्वर्थे, 'उपयोगवन्तो जीवाः' इति प्रयोगो विशेष्य-विशेषणपदयोः समानवचनकत्वनियमाऽहानेर्भवति साधुः, 'उपयोगवन्तो जीवः' इति चोक्तनियमहानेन भवति साधुरित्येवं न भवेत् , “जीवाऽजीवाऽऽश्रव-वन्ध-संवर-निर्जरा मोक्षास्तत्वम्” [ त० १. ४. ] इत्यत्र सामानाधिकरण्योपपत्तये जीवादिसप्तपदार्थैः सह तत्त्वपदार्थस्य स्वरूपसत्त्वस्याभेदेनान्वय इति तत्त्वगतैकत्वावच्छे देन बहुत्वान्वयस्य स्वहस्तितत्त्वेन जीवगतैकत्वावच्छेदेन बहुत्वान्वयस्यापि