________________
[ तत्त्वबोधिनीविवृतिविभूषितम् "इत्येष सप्तविधोऽर्थस्तत्त्वम् , एते वा सप्त पदार्थास्तत्त्वानि" इति भाष्यकारः, 'तत्वम्' इत्यस्याव्युत्पत्तिपक्षे परमार्थ इत्यर्थः, ध्युत्पत्तिपक्षे तु जीवादीनां या स्वसत्ता सा तत्वपदेनोच्यते, तस्याश्च प्रतिवस्तु यो भेदस्तमनादृत्यैकवचनम् , नैयायिकादिवत् तस्या अतिरिक्तत्वानभ्युपगमेन वस्तुधर्मतया प्रतिवस्तु भेदमभिप्रेत्य च भाष्ये बहुवचनमपीति टीकाकृतः ।
वरणादि अष्टविधं कर्म, तद्विशुद्धस्तद्रहितः, स्वात्मा अनन्तज्ञानादि. स्वरूपम् , तस्य लाभः प्राप्तिः ।
सूत्रे 'तत्त्वम्' इत्युक्तम् , भाष्ये च 'तत्त्वम्' इत्येकवचनम् 'तत्त्वानि' इति बहुवचनम् , इत्येतद्वयं यथासङ्गतं तथा भाष्यवचनमुल्लिख्योपदर्शयति- इत्येष इति । अव्युत्पत्तिपक्ष इति- परमार्थरूपार्थे रूढ एवायं तत्त्वशब्द इति पक्ष इत्यर्थः। व्युत्पत्तिपक्षे तु तस्य भावस्तत्त्वमिति यौगिकोऽयं तत्त्वशब्द इति पक्षे पुनः। स्वसत्ता स्वरूपसत्ता। सा स्वरूपसत्ता। तस्याश्च स्वरूपसत्तायाः पुनः। प्रतिवस्तु प्रतिव्यक्ति, स्वरूपसत्ता व्यक्तिस्वरूपेति व्यक्तिभेदेन तस्या अपि भेदः, एवमनुगतप्रतीत्यनुरोधेन कथञ्चिदैक्यमपीति तमनादृत्य सन्तमपि भेदं गजनिमीलिकयोपेक्ष्य 'तत्त्वम्' इत्यत्रैकवचनमुक्तम् । ‘नैयायिकादि०' इत्यादिपदाद् वैशेषिकपरिग्रहः, नैयायिक-वैशेषिकाभ्यां यथा द्रव्य-गुण-कर्मसु परसामान्यस्वरूपायाः सर्वथा व्यतिरिक्तायाः सत्ताया अभ्युपगमस्तथा जैनेन सत्ताया अतिरिक्तत्वस्यानभ्युपगमेन धर्म-धर्मिणोरभेदेन वस्तुधर्मतया वस्त्वात्मकत्वात् प्रतिवस्तु यो भेदस्तमभिप्रेत्य भाष्ये 'तत्त्वानि' इति बहुववनमपि सङ्गतमिति टीकाकृतः तत्त्वाथटीकाकाराः, आहुरिति शेषः ।