________________
[७
अनेकान्तव्यवस्थाप्रकरणम् ] शुभाशुभकर्माऽऽदानहेतव इत्यर्थः। बन्धो नाम- आश्रवातकर्मण आत्मना सह प्रकृत्यादिविशेषतः संयोगः। आश्रवनिरोधहेतुः संवरः। विपाकात् तपसो वा कर्मणां शाटो निर्जरा। सर्वोपाधिविशुद्धस्वात्मलाभो मोक्षः।
जीवाऽजीवाश्यामन्यत्वे तत्त्वार्थसूत्रवृत्तिकृता युक्तिरावेदिता-. "आश्रवः क्रियाविशेषः, स चात्म-कायाद्याश्रयो न जीवो न जीवपर्यायः केवलः, नवाऽजीवो नापि तत्पर्यायः, उभयाश्रयत्वात्, न च पदार्थान्तरं जीवाऽजीवाभ्यामतो भेदेनाऽऽश्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते” इति, “काय-वाङमनः कर्म योगः" [त० ६. १.] इत्यनेन कायिकं कर्म, वाचिकं कर्म, मानसं कर्मेति त्रिविधयोगस्वरूपमभिधाय "स आस्रवः” [त० ६. २.] इत्यनेन तस्याऽऽश्रवत्वमवधारितं शुभाशुभकमणोरास्रवणादास्रव इति व्युत्पत्युदर्शनेन, तेन च शुभाऽशुभकर्मादानहेतुत्वं तल्लक्षणपर्यवसितम् । बन्धस्वरूपमुपदर्शयति- बन्धो नामेति। 'प्रत्यादि०' इत्यादिपदात् स्थित्यनुभाव प्रदेशानां ग्रहणम् , तेन च प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्ध इत्येवं चतुर्विधो बन्ध इत्यावेदितम् । संवरस्वरूपमावेदयति- आश्रवेति-गुप्ति समिति-धर्मानुप्रक्षा-परिषहजयचारित्राणि आश्रवनिरोधहेतवः, आश्रवनिरोध एव संवरः, तद्धे. तुत्वाद् गुप्त्यादयोऽपि संवर इति। निर्जरास्वरूपमुपदर्शयतिविपाकादिति- फलोपभोगादित्यर्थः । तपसो वेति- अनशनाऽ-वमौदार्यवृत्तिसङ्ख्यानर-सपरित्याग-विविक्तिशय्यासन-कायक्लेशलक्षणषड्विधबाह्यतपःप्रायश्चित्त-विनय वैयावृत्त्य स्वाध्याय-व्युत्सर्ग-ध्यानलक्षणषड्विधान्तरतपोभ्यां वेत्यर्थः। शाटः आत्मप्रदेशेभ्योऽपगमः पृथग्भवनम् । मोक्षस्वरूपमुपदर्शयति-सर्वोपाधीति- उपाधिश्चात्र ज्ञाना