________________
[ तत्त्वबोधिनीविवृतिविभूषितम् जीवा:- औपशमिकादिभावान्विताः। अजीवाः- धर्मादयश्चत्वारोऽस्तिकायाः। आश्रूयते- गृह्यते यैः कर्म ते आश्रवाः,
माया लोभभेदेन चतुर्विधः कषायः; स्त्री-पुं-नपुंसकभेदेन त्रिविधो वेदः, मिथ्यादर्शनम् , अज्ञानम् , असंयतत्वम्, असिद्धत्वम्, कृष्णलेझ्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ल लेश्या इति षड़ लेश्या इत्येते एकविंशतिरौदयिका भावाः; जीवत्वम्, भव्यत्वम् , अभव्यत्वमित्येते त्रयः पारिणामिका भावा इत्येवमोपशमिकादिपञ्चविधभावान्यतमवत्त्वं जीवस्य लक्षणं प्रति पत्तव्यमित्यर्थः। 'उपयोगलक्षणो जीवः' इति तद्रहितोऽजीव इति तान् दर्शयति-अजीवा इति । 'धर्मादयः' इत्यत्रादिपदाद् अधर्माऽऽकाश-पुद्गलानां ग्रहणम् , तथा च धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकाय इत्येवं चतुर्भेदा अजीवा इत्यर्थः, अस्तिशब्देन ध्रौव्यम् , कायशब्देनोत्पाद विनाशावित्युत्पाद-विनाशध्रौव्यैतत्रितयात्मकत्वलक्षणं सत्त्वमेतेष्वस्तिकायशब्दप्रयोगतो दर्शितं भवति, जीवा इत्यपि जीवास्तिकाया इत्येवंरूपं वाच्यम् , उत्पाद व्यय-ध्रौव्यलक्षणसत्त्वस्य तत्रापि तत एव प्रतीतेः। तत्र “गतिस्थित्युपग्रहो धर्मा-ऽधर्मयोरुपकारः" [५. १७.] इति तत्त्वार्थसूत्राद् गतिमतां जीव-पुद्गलानां गत्युपग्रहकारित्वं धर्मास्तिकायस्य लक्षणम् , स्थितिमतां जीव पुद्गलानां स्थित्युपग्रहकारित्वमधर्मास्तिकायस्य लक्षणम् , अत एव लोकाकाशमात्रव्यापितयैवधर्माऽधर्मयोर्भावाल्लोकाकाश एव जीव-पुद्गलयोर्गति-स्थिती नान्यत्र । " आकाशस्यावगाहः" [त० ५. १८.] इति सूत्राद् अवगाहिनां धर्मा-ऽधर्म-पुद्गल-जीवानामवगाहोपग्रहकारित्वमाकाशस्य लक्षणम् । "रूपिणः पुद्गलाः" [ त० ५. ४.] इति सूत्राद् रूपवत्त्वं पुद्'गलानां लक्षणम् । आश्रवलक्षणमुपदर्शयति- आश्रूयत इति- आश्रवस्य