________________
अनेकान्तव्यवस्थाप्रकरणम् ]
" जीवाऽजीवाऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्वम्" [ तत्वार्थाधिगम० अ० १. सू० ४.] षयाऽपहस्तयितुं शक्य इत्याशयेनोत्तरयति- उच्यत इति । ‘भावाभावादि०' इत्यादिपदान्नित्यत्वाऽनित्यत्व-भेदाऽभेदादेरुपग्रहः। तथा च तत्त्वेषु जीवादिपदार्थेषु भावाऽभाव-नित्यत्वाऽनित्यत्व-भेदाऽभेदाद्यनन्तधर्मसहितकरूपत्वमनेकान्तः, एकस्यैकानेकस्वस्वरूपत्वमनेकान्त इति यावत्। तस्य भावस्तत्त्वमुच्यते, प्रकृतं च तच्छब्दार्थः, न चात्र प्रकृतं किञ्चिदस्ति यस्य भावस्तत्त्वं स्यातू , यत्रैकमपि तत्त्वं दुर्लभं तब बहुवचनान्ततत्त्वशब्दवाच्यानेकतत्त्वानां दुर्लभत्वे किमु वक्तव्यमित्याशयेन परः पृच्छति-कानीति । यौगिकस्य तत्त्वशब्दस्य प्रकृतधर्मप्रतिपादकत्वेऽपि प्रकृते रूढस्य तस्य पदार्थप्रतिपादकत्वमित्याशयेनोत्तरयति- तत्रेदमिति, तत्र- उक्तप्रश्न, इदम्- अनन्तरमेवाभिधीयमानं तत्त्वप्रतिपादकं 'तत्त्वार्थसूत्रम' उत्तरम् , “ जीवाजीव ०" [ १. ४.] इत्यादि सूत्रम् । संक्षेपेण जीवादिपदार्थानां स्वरूपमुपदर्शयति- जीवा इति । 'औपशमिकादि०' इत्यादिपदात् क्षायिकक्षायोपशमिकौदयिक-पारिणामिकभावानां परिग्रहः, तथा च-औपशमिकः, क्षायिकः, क्षायोपशमिकः, औदयिकः पारिणामिकश्चेत्येवं पञ्चविधभावान्विता जीवा इत्यर्थः । तत्र सम्यक्त्व चारित्रे द्वावौपशमिकभावौ; ज्ञान-दर्शन-दान-लाभ-भोगोपभोग-वीर्यसम्यक्त्वचारित्राणि नव क्षायिका भावाः; मतिज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , मनःपर्यवज्ञानमित्येवं ज्ञानचतुष्टयम् ; मत्यज्ञानम्, श्रुताऽज्ञानम् , विभङ्गज्ञानमित्येवमज्ञानत्रयम् ; चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनमिति दर्शनत्रिकम् ; दानलब्धिः, लाभलब्धिः, भोगलब्धिः, उपभोगलब्धिः, वीर्यलब्धिरिति लब्धिपञ्चकम् ; सम्यक्त्वम् , चारित्रम् , संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावाः, नारक तैर्यग्यौन-मनुष्यदेवगतिभेदेन चतुर्भदा गतिः; क्रोध-मान