________________
[ तत्वबोधिनी विवृतिविभूषितमा जिनमतमतिगम्भीरं नयलवविद्भिः परैरनन्तनयम् । आघ्रातुमपि न शक्यं हरिणेन व्याघ्रवदनमिव ॥२॥ वस्तुधर्मो ह्यनेकान्तः प्रमाण-नयसाधितः । अज्ञात्वा दूषणं तस्य निजबुद्धेविडम्बनम् ॥ ३॥
अथ कोऽयमनेकान्तः ? उच्यते- तत्वेषु भावाऽभावादिशबलैकरूपत्वम् । कानि तत्त्वानीति चेत् ? तत्रेदं तत्त्वार्थमहाशास्त्रसूत्रम्
प्रमाण-नयनिष्टङ्कितस्वरूपस्य वस्तुधर्मस्यानेकान्तस्य स्वरूपमपरिशायैव दूषणं स्वबुद्धिविडम्बनमेव परेषां न तु तद् दूषणं शपत्यनेकान्तम्, अतोऽनेकान्तव्यवस्थाऽस्मत्प्रयत्नोपढौकिता समादरणीया विद्वद्भिरिति न निष्फलोऽयं प्रयास इति पद्याभ्यामाह-जिगमतमिति, . वस्तुधर्मो हीति च । जिनमतस्याऽऽघ्राणमंशतोऽपि परिज्ञानम् । नय. लववित्त्वं च दुर्नयाभिनिवेशशालित्वम् । परैः तीर्थान्तरीयैः। तस्य अनेकान्तस्य । अन्यत् स्पष्टम् ॥२-३॥
परस्परविरुद्धानां सत्त्वासत्त्वादीनामेकत्र समावेशासम्भवाद् यत्र सत्त्वं तत्र नासत्त्वम्, यत्र नित्यत्वं तत्र नावित्यत्यत्वम् , इत्येकान्त एव कान्त इत्याग्रहग्रहिलः परः पृच्छति- अथेति । अयम् 'वस्तुधर्मो ह्यनेकान्तः' इत्यनन्तरपद्ये निर्दिष्टः। क इति- 'किमाक्षेपें', एकान्त एव सर्वत्रावलोक्यत इति तदुपलम्भबाधित्वान्नास्त्यनेकान्त इत्याक्षेपः । अभिन्नदेश-कालाद्यवच्छेदेनैकाधिकरणाऽवृत्तित्वमेव विरोधः, स च विभिन्न देशकालादिस्वस्वनिमित्तापेक्षयैकत्र विद्यमानानामपि भावाऽभावादीनां निर्वहत्येवेति विरोधे सत्यप्यविरोधो भावाऽभावादीनामित्येकत्र समावेशसम्भवादनेकान्तो न विरोधबिभी.