________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३
विशेषणविशिष्टं जिन नत्वा एकान्ततत्त्वव्यवस्थायां श्रमो विहितः स्यात् तदा निष्कल एव भवेत् , एकान्ततत्त्वस्य जिनाननुमतत्वेन तव्यवस्थाप्रतिबन्धकस्य विघ्नस्य जिननमस्काराऽनपनेयत्वात्, अभीष्टसिद्धिप्रतिबन्धकविघ्नसमूहापनयनस्यैव तत्कार्यत्वात् ,अनेकान्ततत्त्वं तु त्रिपदीवचनप्रणेतुर्जिनस्यानुमतमेवेति तत्प्रणामलक्षणमङ्गलतस्तद्व्यवस्थाविघ्नापनयनं संभवतीत्यतोऽनेकान्ततत्त्वाविर्भावकवचनातिशयोऽपि भगवतोऽर्थादवगम्यत इति तथाविधातिशयचतुष्टयसम्पन्नपुरुषधौरेयनमस्करणं विघ्नौघविनाशकत्वाद् भवत्येव मङ्गलमित्यभिसन्धिः । 'अनेवान्तव्यवस्थायाम्' इत्यनेन ‘अनेकान्तव्यवस्था' इति ग्रन्थनामसंशब्दनादनेकान्ततत्वव्यवस्थापकत्वादेवास्य ग्रन्थस्य ‘अनेकान्ततत्त्व' इति नाम, तथा चानेकान्ततत्त्वमस्याभिधेयम् , विशेषेण तदवगतिलक्षणा तद्व्यवस्था प्रयोजनम् , अनेकान्ततत्त्वावगतिकामोऽधिकारी, अनेकान्ततत्त्वेन सहोक्तग्रन्थस्य प्रतिपाद्यप्रतिपादकभावसम्बन्धः, उक्तप्रयोजनेन सह जन्य-जनकभावसम्बन्ध इत्याल्लभ्यते, एतदनुबन्धचतुष्टयप्रभवेष्टसाधनताज्ञानत: श्रोतृणामेतदध्ययने प्रवृत्तिः सूपपादिता भवतीति। कश्चिच्छ्रमः य: केवलपरदर्शनकोविदैः केवलस्वदर्शननिपुणैर्वा कर्तुमशक्यः स श्रमः, स च परमतनिराकरणपूर्वकस्वमतव्यस्थापनानुकूलप्रयत्नलक्षणः स्व-परदर्शनविदुष एव सम्भवतीति तथाविधप्रयत्नशालिनः स्वस्य स्वपरदर्शनवेत्तृत्वमावेदितं भवतीत्येतादृशपुरुषनिर्मितग्रन्थस्याध्ययनादौ प्रेक्षावतामवश्यमेव प्रवृत्तिर्भविष्यतीत्यतो यावध्ययनाऽध्यापनादिव्यवहारस्तावदयं ग्रन्थोऽध्ययनाध्यापनादिव्यापारगोवर इति तावत्कालस्थायित्वमप्यस्य गम्यत इति ॥१॥
जिनमतस्यानन्तनयमयस्यातिगूढाभिप्रायस्यांशतोऽपि ज्ञानं न सम्भवति नयलवपरिज्ञानदुर्विदग्धानां परेषामिति जिनाभिप्रेतस्य