________________
२]
[ तत्त्वबोधिनीविवृतिविभूषितम् यस्यास्ति प्रतिभैव शास्त्रनिचये तत्त्वार्थसन्दर्शिनी
यो नित्यं कृतिमातनोति विमलां तत्त्वप्रथाभासुराम् । व्याकृत्यादिविचारणा प्रतिदिनं यच्छिष्यवर्गे तरा
तं भक्त्या प्रणमाम्यहं गुरुवरं श्रीनेमिसूरीश्वरम् ॥ ४ ॥ सेवा शास्त्रस्य नित्यं विलसतु रचनाव्याजतो मामकीना
स्वाभ्यासो वृद्धिमीयाजिनमतविषयो वाऽस्तु बालोपकारः। इत्याशातः प्रवृत्तिस्त्विह विवृतिविधौ या च लावण्यसूरेः
साऽनेकान्तव्यवस्थाप्रकरणविषया चांशतोऽप्येत्वभीष्टम्॥५।। ऐन्द्रस्तोमनतं नत्वा वीतराग स्वयम्भुवम् । अनेकान्तव्यवस्थायां श्रमः कश्चिद् वितन्यते ॥ १॥
प्रारिप्सितस्य जनतोपराभिधानाऽनेकान्तव्यवस्थाप्रकरणस्य निर्विघ्नपरिसमाप्तये स्वाभीष्टदेवनमस्कारलक्षणंमङ्गलमाचरन्ननुनुबन्धचतुष्टयावगतिनिमित्तमन्वर्थग्रन्थनाम निबध्नाति-ऐन्द्रस्तोमनतमिति'इन्द्रस्तोमनतम्' इत्युक्तावपि इन्द्राणां सुराधिपतीनां स्तोमः समूहस्तेन नतं प्रणतिकत्यतः पूजातिशयो लभ्यत एव, एवमपि यद् ‘ऐन्द्रस्तोमनतम्' इत्युक्तं तेन स्वनिर्मितग्रन्थमात्र एव श्रीयशोविजयमहोपाध्यायः स्वाभीष्टसरस्वतीमन्त्रस्य ऐङ्कारस्य स्मरणं करोत्येव, तेन च श्रीमद्यशोविजयाभिधस्य स्वस्य कर्तृत्वमपि लभ्यत इत्युपदर्शित भवति, अत्र इन्द्रसम्बन्ध्यर्थकस्यैन्द्रपदस्य स्तोमपदेन समूहार्थकेन कर्मधारयसमासः। 'वीतरागम्' इत्यनेन संक्लेशजननरागादिराहित्यतस्तत्लहवरितद्वेषादिराहित्यस्याप्यवगतिरित्यतोऽपायापगमातिशयोऽवगम्यते। 'स्वयम्भुवम्' इत्यनेन च शानातिशयः, ज्ञानरूपेणैव सर्वदा स्वयं परिणमतेऽयम् , अतः स्वयं तथामवनात् स्वयम्भूरिति। एतन्नमस्कारकरणानन्तरमनेकान्तव्यवस्थायां श्रमस्य यद् विधानं तेनार्थादिदमावेदितंभवति-ययुक्त