________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ १७. व्यवच्छेदफलकत्वं सर्वसिद्धम् , तत्रोद्देश्य-विधेयभावस्थले विधेयर्भावस्तत्पदार्थगताऽसाधारणधर्मरूपविभाजकेन सह सामानाधिकरण्ये सति विभाजकत्वमेव न स्यात् , निरक्तविभागलक्षणान्यथानुपपत्त्या परस्परविरुद्धधर्माणामेव विभाजकत्वव्यवस्थितरित्येवं विभाग-. घाक्यस्य न्यूनसङ्ख्याव्यवच्छेदकत्वम्, एवं वाक्यान्तरस्य प्रमाणान्तरसिद्धार्थानुवादकस्योद्देश्य-विधेयभावेन स्वार्थावबोधकत्वाभावे. ऽपि विभागवाक्यस्याऽपूर्वार्थप्रतिपादकस्योद्देश्य-विधेयभावेनैवार्थावबोधकत्वम् , उदेश्य विधेयभायस्थले च सर्वत्र 'असति वाधके उद्देश्यतावच्छेदकारच्छेदेव विधेयान्त्रयः' इति नियमः, 'नीलो घटः' इति वाक्यम्प्युद्दे दयविधेयभावनेवाऽर्थावबोधकं यतस्तत्र घटमुद्दिश्य तादात्म्येन नीलस्य विधानम्, किन्तु पीतादिघटे प्रत्यक्षेण नीलस्य बाधामोद्देश्यतावच्छेदकघटत्वावच्छेदेन तादात्म्येन नीलस्याऽन्वय इत्यत उक्तनियमे 'असति बाधके' इत्युक्तम् , एवं च पदार्थविभजने पदार्थवमुद्देश्यतावच्छेदकं तदवच्छेदेन जीवाऽजीवादिसप्तान्यतमस्थ विधेयस्यान्वय इति पदार्थत्वव्यापकत्वं निरुक्तान्यतमस्य विभागवायाजायते, तथा च यदि जीवा-ऽजीवादिसप्तव्यतिरिक्तोऽपि कश्चित् पदार्था भवेत् तदा तबाऽपि पदार्थत्वमुद्देश्यतावच्छेदकं समस्ति, जीवाऽजीवादिसाहान्यतमलमविधेयश्च तत्र नास्तीति नोद्देश्यतावच्छेदकव्यापकत्वं विधेयस्य स्यादिति विभागवाक्यजन्यविधेयगतोद्देश्यतावच्छेदकव्यापकत्वाऽबाधितप्रतीत्यन्यथानुपपत्त्याध्वधायते- ‘जीवाऽजीवादिसप्तपदार्थातिरिक्तपदार्थों नास्ति, इत्येवमधिकसंख्याव्यवच्छेदकत्वं विभागस्येति युक्तमुक्तम्'सर्वत्र विभागवाक्ये न्यूनाधिकसङ्ख्याव्यवच्छे दफलकत्वम् . इति । यदि सर्वत्र विभागवाक्ये न्यूनाधिकसङ्ख्याव्यवच्छेदफटकत्वं कस्य: चिदेव वादिनः सिद्धं स्यात् तदेतदपि वक्तुं शक्यते- न स्यादादिनस्तत्सिद्धमतस्तदीयजीवाऽजीवेत्यादिविभागवाक्ये न्यूनसङ्ख्याव्यव: