________________
२७८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सम्बन्धिविनिमोकेण 'ज्ञानं ज्ञानम्' इत्यनुगतप्रतीत्यादिना तदैक्ये
रूपं रूपम्' इत्याद्यनुगतप्रतीत्यादिना रूपादेरप्यैक्यसिद्धिप्रसङ्गात बद्भेस्यापि 'घटरूपं पटरूपम्' इत्याद्युपाधिपुरस्कारेणैव प्रतीयमानत्वात् । किञ्च, एवं 'सत् सत्' इत्यनुगतप्रतीत्या सदद्वैत सिद्धयतु, न तु ज्ञानाद्वैतम् । अथ “सच्चिदानन्दरूपं ब्रह्म" [अद्वयतारकोपनिषद्, ६] इति श्रुत्या सदद्वैतं चिदानन्दब्रह्मैकरसमेव सिध्यतीति चेत् ? तर्हि सत्त्व-चित्वाऽऽनन्दत्व ब्रह्मत्वरूपधर्मचतुष्टययोगानिधर्मभेदावभासो नाङ्गीक्रियते तदा घटाभावादेः पटाभावादितो भेदप्रतीतेरपि प्रतियोगिरूपोपाधिपुरस्कारेण जायमानत्वादभावस्यापि वास्तवभेदासिद्धया एकत्वं स्यात् एवं संयोग-विभाग-हस्वत्व-दीर्घत्वादीना. मप्यपाधिपरामर्शमन्तरेण भेदप्रतीतेरभावाक्यमापद्यतेति, यथा च विषयविनिर्मोकेण ज्ञानं ज्ञानमित्यनुगतप्रतीतिस्तथा घटादिसम्बन्धिविनिर्मोकेण रूपं रूपमित्यनुगतप्रतीतिरस्त्येव, तथा चोक्तप्रतीतिबलाद् यदि शानस्यैक्यं रूपस्याप्युक्तप्रतीतिबलादेक्यं किं न स्यादित्याहसम्बन्धिविनिर्मो केणेति। तदैक्ये ज्ञानक्ये। तभेदस्यःपि रूपमेदस्यापि । वस्तुमात्रे यथा 'सत् सत्' इत्यनुगतप्रतीतिर्भवति-'सन् घटः, सन् पटः' इत्येवंरूपा तथा न तत्र ज्ञानस्य 'ज्ञानं घटो ज्ञानं पटः' इत्येवमनुगतप्रतीतिर्भवतीत्यनुगतप्रतीतिबलात् सदैतमेव सिद्धयेत् , न ज्ञानाऽतिमि. त्याह-किञ्चेति । एवम् अनुगतप्रतीतिबलादद्वैताभ्युपगमे । सदद्वैतसिद्धायपि सद् ज्ञानानन्दस्वरूपमेवेति ज्ञानाद्वैतं तावताऽपि सिद्धयत्येवेति पर आशङ्कते-अथेति । एव सति सत्त्वरूपधर्मयोगात् सद्रूपम् चित्त्वरूपधर्मयोगाञ्चिद्रूपम्,आनन्दत्वरूपधर्मयोगादानन्दरूपम् , ब्रह्मत्वरूपधर्म: योगाद ब्रह्मेति सधर्मत्वमेव ब्रह्मण इति तस्य निर्धमत्वाभ्युपगमो व्याह. येतेति समाधत्ते नहीति । भवतु सदाद्यात्मकं ब्रह्म,परन्तु 'तत् त्वमसि इत्यादिवाक्यप्रभवं निर्विकल्पकं ब्रह्मस्वरूपमात्रमवगाहत इति ब्रह्मा