________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २७७ चेत् १न-एकैकविलक्षणजात्यन्तरात्मकभेदाऽभेदसम्बन्धेन धर्म-धर्मिभावोपपत्तेः, तद्व्यक्तिभेदादिकल्पनापेक्षया तदभावकल्पनपुरःसरमेकत्वाभ्युपगम एव विपरीतगौरवात् , सप्रतियोगिकपदार्थस्योपाधि. भेदपुरस्कारेणैव वास्तवभेदतिरोधानेऽभावादेरपि एकत्वापत्तेः, क्षिपति- नेति । एककेति- न भेदरूपो भेदाभेदोभयात्मकसम्बन्धः, येन "प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथ न सः?"। इति वचनात् प्रत्येकपक्षभाविदोष उभयात्मकसम्बन्धेऽपि भवेत् , किन्तु प्रत्येकविलक्षणत्वेन जात्यन्तरात्मक एव भेदाभेदसम्बन्धः, तेन सम्बन्धेन ज्ञानधर्मतयाऽभिमतस्य ज्ञानेन सह धर्म-धर्मिभावोपपत्तेन निर्धर्मकत्वं ज्ञानस्येत्यर्थः। यञ्च ज्ञानानित्यत्वपक्षे तद्वयक्तिभेदादिकल्पने गौरवमभिहितं तत्राह- तद्वयक्तिमेदेति- ज्ञानस्यैकत्वं तदा भवेद् यदि तद्वयक्तिभेदो न भवेदिति तद्वयक्तिभेदाऽभावकल्पनपुरस्सरं तदेकत्वकल्पनमिति तद्वयक्तिभेदकल्पनापेक्षया तदेकत्वकल्पनायामेव गौरवम्, एवं प्रागभावाऽप्रतियोगित्वे सति ध्वंसाऽप्रतियोमित्वं नित्यत्वम् , तत्कल्पनं तदा स्याद् यदि प्रागभावप्रतियोगित्वाभावकल्पना ध्वंस प्रतियोगित्वाभावकल्पना च पूर्व भवेदिति तत्कल्पनापूर्वकनित्यत्वकल्पनायामेव प्रागभावादिप्रतियोगित्वकल्पनापेक्षया गौरवम् , भेदाऽमेद एव खम्बन्धो गुण-गुणिनोरस्माभिरुपेयत इति समवायकल्पनेव नास्तीति न तन्निबन्धनगौरवचर्चाऽपि, वस्त्वेवानुगत व्यावृत्तस्वरूपमुपेयत इत्यनुगतत्वादनुगतप्रतीतिविषयत्वं व्यावृत्तत्वाञ्च व्यावृत्तप्रतीतिविषयत्वमित्यनेकत्वेऽपि ज्ञानस्य नातिरिक्तज्ञानत्वजातिकल्पना समस्तीति न तन्निवन्धनस्यापि गौरवस्यावकाश इति । यञ्चोपाधिपरामर्शमन्तरेण भेदप्रतीतेरेव स्वरूपतो भेदविषयत्वं तत्राह- सप्रतियोगिकेति-विषयनिरूप्यं हि ज्ञानमिति तत्स्वरूपं सप्रतियोगिकमेव, तस्य भेदप्रतीतिनियमत उपाधिपुरस्कारेणैव, एवमपि तस्याः प्रतीतेस्वरूपतो भेद एव विषयः, उपाधिपरामर्शेन प्रतीतितो यदि घास्तव