________________
२७६ ] .
[ तत्त्वबोधिनीविवृतिविभूषितम् एकत्वाभ्युपगमे चातिलाघवात् 'घटज्ञानं पटज्ञानम्' इत्युपाधिभेदपुरस्कारेणैव ज्ञानभेदप्रतीतेः, वस्तुतस्तु 'ज्ञानं ज्ञानम्' इत्येकरूपावगमात् तदुत्पत्तिविनाशप्रतीत्योश्चावश्यकल्प्यविषयसम्बन्धविषयतयाऽप्युपपत्तेः, उपाधिपरामर्शमन्तरेण स्वत एव घटान्तराद् घटान्तरस्य भेदप्रतीतेस्तत्प्रतिबन्दिग्रहासम्भवाद्, अन्यथाऽऽकाश-काल-दिशामपि नानात्वापत्तिरित्यादियुक्तरिति
तयोपादायैव तद्भेदप्रतीतिरित्युपाधिमेदमेवावलम्बते तद्भेदप्रतीतिरित्याह- घटज्ञानमिति । यदा चोपाधिभेदतो भेदप्रतीतिव्यवस्था तदैकव्यक्तित्वान्न तत्र ज्ञानत्वजातिः, किन्तु ज्ञानस्यैकत्वादेव तत्रानुगत. प्रतीतिरित्यनुगतप्रतीतिबलाज्ज्ञानस्यैकत्वमेव सिद्धयतीत्याह- वस्तुत. स्त्विति-परमार्थतस्त्वित्यर्थः। नन्वेवं शानस्य नित्यत्वे एकत्वे च 'घटज्ञानमुत्पद्यते, पटज्ञानं विनश्यति' इत्येवमुत्पादविनाशप्रतीत्योः का गतिरित्यत आह- तदुत्पत्तीति- 'घटज्ञानमुत्पद्यते' इत्यस्य ज्ञाने घटसम्बन्ध उत्पद्यत इति, 'पटज्ञानं विनश्यति' इत्यस्य ज्ञाने पटसम्बन्धो विनश्यतीत्येवं विषयसम्बन्धोत्पाद-विषयसम्बन्धविनाशविषयकत्वादेव शानोत्पत्तिविनाशप्रतीत्योरुपपत्ते, विषयसम्बन्धश्चाभ्युपेयत एवेत्यर्थः। यथा च घटस्यैकस्याऽपरघटाद् भेदप्रतीतिरुपाधिपरामर्शमन्तरेणैव भवतीति स्वरूपतो घटादीनां भेदः, एवं यद्येकस्य ज्ञानस्य ज्ञानान्तरादुपाधिपरामर्शमन्तरेणैव भेदप्रतीतिरुपजायेत तदा तत्यतिबन्द्या ज्ञानस्यापि ज्ञानान्तरात् स्वरूपतो भेदः स्वीक्रियेत, न चैवमित्याह- उपविपरामर्शमन्तरेणेति । अन्यथा उपाधि पुरस्कारेणापि मेदप्रतीतेः स्वरूपतो भेदविषयकत्वाभ्युपगमे । आकाशेति-घटाकाशः पटाकाशाद् भिन्नः, अयं दिवस एतस्माद् दिवसादन्यः, प्राची दिक् प्रतीचीतो भिन्नेत्याधुपाधिपुरस्कारेणाऽऽकाशादी. नामपि भेदप्रतीतेस्तेषामपि स्वरूपतो नानात्वापत्तरित्यर्थः। प्रति