________________
मैं
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २७५
कथं च ज्ञानस्य निर्धर्मकत्व - नित्यत्वाद्यभिप्रेषि १, भेदेनाsभेदेन वा धर्म- धर्मिभावानुपपत्तेः, ज्ञानाऽनित्यत्वपक्षे तद्व्यक्तिभेद-ध्वंसप्रागभाव- समवाय- ज्ञानत्वजात्याद्यभ्युपगमे गौरवाद्
ज्ञानस्वरूपस्य ब्रह्मणो निर्धर्मकत्व - नित्यत्वैकत्वाभ्युपगमोऽपि वेदान्तिनो न युक्तिसह इत्याशयेन वेदान्तिनं पृच्छति कथं चेति । 'नित्यत्वादि' इत्यादिपदादेकत्वपरिग्रहः । वेदान्ती निर्धर्मकत्वाद्युपपादकयुक्तिजालमाशङ्कते - भेदेनेति - ब्रह्मणि यः कश्चिद् धर्मोऽभ्युपगतः स्यात् स ब्रह्मणो भिन्नो वा ? अभिन्नो वा भवेत् ? आद्ये भिन्नत्वाऽविशेबाद् धर्मान्तराणामपि ब्रह्मधर्मत्वं स्यात्, यथा वा धर्मान्तराणां न
धर्मत्वं तथा ब्रह्मधर्मत्वेनाभ्युपगतस्यापि ब्रह्मधर्मत्वं न भवेदेव, द्वितीये यथा घटो न घटधर्मस्तथा ब्रह्मस्वरूपमेव ब्रह्मधर्मो न सम्भवतीत्येवं भेदेनाऽभेदेन वा धर्म-धर्मिभावानुपपत्तेर्निर्धर्मकत्वं ब्रह्मण इत्यर्थः । ज्ञानानित्यत्वपक्ष इति - ज्ञानस्याऽनित्यत्वं तदैव भवेद यदि ज्ञानमुत्पद्येत एवं चैकं ज्ञानमुत्पद्यते, अपरं च विनश्यति, तदन्यद्विनष्टम्, किञ्चिश्चोत्तरकाले भविष्यतीत्येवमनेकानि शानानि स्युरिति तेषां परस्परं भेदाः प्रतियोगिभेदादनेकेऽभ्युपगन्तव्याः, एवं afa ज्ञानानि तावन्तस्तत्प्रतियोगिका ध्वंसाः प्रागभावाश्चाभ्युपगन्तव्याः, एवं यानि ज्ञानानि नैकात्मस्वरूपाणि सम्भवन्तीति तेषां भिन्नानामात्मनि समवायोऽपि स्वीकर्तव्यः, एवं भिन्नेषु तेषु ज्ञानं ज्ञानमित्यनुगतप्रतीतिर्नैकज्ञानत्वजात्यभ्युपगममन्तरेणेति ज्ञानत्वजातिरभ्युपेया, तत्समवायोऽपि तेष्वभ्युपगन्तव्य इत्येवं ज्ञानानित्यत्वपक्षे गौरवात् ज्ञानस्य नित्यत्वाभ्युपगमे तु तदेकमेवेत्येकत्वाभ्युपगम आयात एव तत्र च भेदाद्यनभ्युपगमेनातिलाघवादित्यर्थः । यथा च ' घटः पटाद् भिन्नः' इत्येवंस्वरूपेणैव घट- पटादीनां भेदः प्रतीयत इति तेषां स्वरूपतो भेदः, नैवं ज्ञानस्य स्वरूपतो भेदप्रतीतिरस्ति यद्वलात् स्वरूपभेदं ज्ञानस्याभ्युपेमहि, किन्तु विषयविशेषं विशेषण
"