________________
२७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
,
व्यवहारस्यैवोच्छेदप्रसङ्गात् इत्थं चैकशब्देनोभयधर्मोपरक्तविवक्षायामनिर्वाच्यत्वमपि सप्तभङ्गी महावाक्यस्थं सङ्गच्छते, सर्वथाऽनिर्वाच्यत्वे तु शशविषाणप्रख्यत्वमिति किं न विचारयसि १ । तदिदमुक्तं प्रभुश्री हेमसूरिभिः-
" माया सती चेद् द्वयतच्च सिद्धिरथाऽसती हन्त ! कुतः प्रपञ्चः १ । मायैव चेदर्थसहा च तत् किं, माता च वन्ध्या च भवेत् परेषाम् ।।" [ अन्ययोगव्य ० १३ ] इति ।
पपादितं स्यात्, तच्च नास्माकमनुमत किन्तु सर्वथाऽनिर्वचनीयत्व' मेव, तच्च न सप्तभङ्गीमहावाक्यस्थमिति न स्याद्वादिकक्षाप्रवेशो वेदान्तिन इत्यत आह- सर्वथाऽनिर्वाच्यत्वे त्विति - यदि सर्वथाऽनिर्वचनीयत्वमेवाज्ञानस्य तदा शशविषाणतुल्यत्वमेवास्य, एवं च यथा शशविषाणादसतः किमपि कार्य नोपजायते तथाऽसतोऽज्ञानादपि प्रपञ्चो न भवेदिति ततो जगत्सृष्टिप्रतिपादनं भवतोऽसङ्गतमेव स्यादिति किं न विचारयसीत्यर्थः ।
"
उक्तार्थे श्रीहेमचन्द्रसूरिभगवद्ववचनं संवाद कतयोपदर्शयतितदिदमुक्तमिति । मायेति- सती मायाऽभ्युपेयते चेत् तर्हि - एका माया द्वितीयं च ब्रह्मेति द्वयतत्त्वसिद्धिरिति अद्वैतवादो वेदान्तिनोऽपहस्तितः स्यात्, अथासती मायाऽभ्युपेयते हन्तेति खेदे, एवं सति असतः शशविषाणस्य यथा नाऽर्थक्रियाकारित्वं तथाऽसत्याया मायाया अपि नार्थक्रियाकारित्वम्, कुतः प्रपञ्चः ? प्रपञ्चो न भवेदेव कारणा• भावात्, मायैव चेदर्थसहा च असत्येव माया अर्थक्रियाकारिणी चेति तत् तर्हि, परेषां वेदान्तिनाम्, माता च अपत्यजननी च वन्ध्या च अन पत्या जननी च किं भवेत् अर्थाद् विरोधान्न भवत्येव तथा व्याघातामाया चार्थसहा चेति न सम्भवतीत्यर्थः, 'भवत्परेषाम् ' इति पाठे तु जिनमतवाद्यानामित्यर्थः ॥
9