________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २७३ भिप्रायेणैकत्रैकत्वा-ऽनेकत्वयोरिवापेक्षाभेदेनैव परिहारात, व्यावहारिकाऽतिरिक्तसमष्टिस्वीकारे च चरमत्वाभिमततत्तत्समष्टयन्तर्भावेन क्लप्तेषु यावत्सु समष्टयन्तरस्वीकारापत्तावनवस्थादौस्थ्याद् स्यैकत्वं यदभ्युपेयते परेण तदनवस्थादोषदूषितमेव, यतस्त्रिविधा व्यष्टयस्त्रिविधाश्च समष्टयः पूर्वमुपदर्शिताः, तत्र चरमत्वेनाभिमतसमष्टि- तत्पूर्वाभिमतसकलसमष्टितत्समस्तस्वरूपैकसमष्टेरपराया अपि सम्भवेन तत्स्वीकारस्याप्यावश्यकतया पुनस्तत्समष्टि-तत्पूर्वामिमतसकलसमष्टिस्वरूपैकापरसमष्टिस्वीकारस्याप्येवं सम्भवे तद्दिशा पूर्वपूर्वाभ्युपगतसकलसमष्टिस्वीकारपरम्परापत्तितोऽनवस्थातो व्यवहारस्यैवोच्छेदानाऽतिरिक्तव्यावहारिकसमष्टिस्वीकारो ज्यायानि त्याह- व्यावहारिकेति । अज्ञानस्य रूपभेदापेक्षया भावा-ऽभावोभयरूपस्याऽविरुद्धस्य सिद्धौ युगपदुभयरूपस्य प्राधान्यविवक्षायामेकशब्दस्य युगपत्प्रधानीभूतभावा-ऽभावोभयरूपाऽज्ञानप्रतिपादकस्य समासरूपस्य वाक्यरूपस्य वा कस्यचिदभावात् कथञ्चिदनिर्वचनीयत्व. मप्यज्ञानस्य स्याहादप्रमाणराजमवलम्ब्य सङ्गच्छत इत्याह- इत्थं चेतिविभिन्नरूपापेक्षयाऽज्ञानस्य भावा-ऽभावोभयरूपत्वसिद्धौ चेत्यर्थः। सभयधर्मेति- भावत्वा-ऽभावत्वोभयधर्मेत्यर्थः, सप्तभङ्गीमहावाक्यस्थमनिर्वाच्यत्वमपि सङ्गच्छत इत्यन्वयः, प्रकृते सप्तभङ्गीमहावाक्यम्'स्याद् भाव एवाऽज्ञानम् ' १, 'स्यादभाव एवाज्ञानम् ' २, 'स्याद् भावएव स्यादभाव एव चाज्ञानम्' ३, 'स्यादनिर्वचनीयमेवाज्ञानम्' 'स्याद् भाव एव स्यादनिर्वचनीयमेवाज्ञानम् ' ५, 'स्यादभाव एव स्यादनिर्वचनीयमेवचाज्ञानम् ' ६, 'स्याद् भाव एव स्याभाव एव स्यादनिर्वचनीयमेव चाज्ञानम्' ७ इति, एतत्सप्तभङ्गीमहावाक्यघटकतुरीयभङ्गप्रतिपाद्यत्वादनिर्वचनीयत्वस्य सप्तभङ्गीमहावाक्यस्थत्वम्, स्वप्रतिपादकभङ्गघटितत्वसम्बन्धेनाऽनिर्वचनीयत्वं सप्तभङ्गी. महावाक्ये तिष्ठतीति कृत्वा । नन्वेवं कथञ्चिदनिर्वचनीयत्वमज्ञानस्यो
૧૮