SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २७२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् रूपामप्यनिर्वाच्यशब्देनाऽपहोषि ?। ज्ञानविरोधित्वेन भावत्वात् , ताविकरूपापेक्षया चाभावत्वादनिर्वाच्यत्वं न्यायायाडमिति चेत् ? न-एवं ह्युभयरूपताया एव न्यायायातत्वात् , विरोधस्य समष्टि व्यष्टयज्ञानस्य च ज्ञाने सत्येव स्यात् , धर्मिज्ञान प्रतियोगिज्ञानयोः सत्त्वे च तयोरपि ज्ञानसामान्याभावप्रतियोगित्वात् तत्सत्त्वे च तदभावस्याभावादेव न तज्ज्ञानसम्भवः, एवं ज्ञानज्ञानमप्यात्मरूपर्धामण्येव भवे. दिति प्रतियोगिमत्ताज्ञानस्याभावज्ञानप्रतिबन्धकत्वादपि न तत्सत्त्वे शानाभावज्ञानसम्भवः, अथ धर्मि-प्रतियोगिनोनिं नास्ति तदा तद्पकारणाभावादेव न ज्ञानसामान्याभावज्ञानसम्भव इत्यतो भाव. रूपाज्ञानमेव 'न जानामि' इति प्रतीतिविषय इति युक्तया सिद्धां भाव. रूपामपि तामनिर्वाच्यशब्देनाऽपह्नोषीत्यर्थः। वेदान्ती शङ्कते-ज्ञानविरोधित्वेनेति- ज्ञानस्य भावरूपस्य विरोधी भाव एव भवति, यथाआलोकस्य भावस्य विरोधि भावभूतं तम इति ज्ञानविरोधित्वेनाऽज्ञानस्य भावत्वादित्यर्थः। तत्त्वतो भावरूपत्वे तस्य बाधो न भवेद्, भवति च बाघस्तस्येत्यतः, तात्त्विकरूपापेक्षया तस्य अभावत्व दिति भाव. त्वमभावत्वं च विरुद्ध नैकत्र सम्भवतीत्यतः, अनिर्वाच्यत्वं न्यायायातमिति। एकरूपापेक्षयैव भावत्वमभावत्वं विरुद्धत्वान्नैकत्र सम्भवति, भिन्न रूपापेक्षया च भावत्वा-ऽभावत्वे न विरुद्ध इति ताभ्यां निर्वचनीयत्वं तस्य सम्भवतीति नाऽनीर्वचनीयत्वं तस्येति समाधत्ते- नेति । हि यतः। एवं ज्ञानविरोधित्व-तात्त्विकत्वरूपभेदेन । उभयरूपताया एव भावा भावोभयरूपताया एव। ननु विरोधान्न भावा-ऽभावोभयरूपत्वस्यै. कत्र सम्भव इत्यत आह- विरोधस्येति- 'परिहाराद्' इत्यनेनान्वयः। समष्टीति- यथाऽज्ञानस्य समष्टिरूपत्वेनैकत्वं व्यष्टिरूपेणाऽनेकत्वमित्येवमपेक्षाभेदेनैकत्वाऽनेकत्वयोरेकत्राऽज्ञाने सम्भवान्न विरोधस्तथैव भावाऽभावरूपत्वयोरप्युक्तदिशाऽपेक्षाभेदेनैकत्राक्षाने सम्भवान विरोध इत्येवं विरोधस्य परिहारादित्यर्थः। किञ्च, समष्टिरूपेणाशान
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy