________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २७१ भूयश्चान्ते विश्व-मायानिवृत्तिः" इति श्रुतिरेव विचारपूर्वकमहावाक्यार्थजात्मसाक्षात्कारस्य साक्षादज्ञाननिवर्तकत्वं विनिगमयतीति चेत् ? तर्हि तामेव परिपृच्छ-कथं मायां मिथ्यात्वेन निवृत्तामपि ज्ञानेन निवर्तयसि? कथं वा प्रपञ्चवैचित्र्ये प्रवर्तयसि ? कथं वा 'न जानामि' इति साक्षिप्रतीतिसिद्धाऽज्ञानशब्दवाच्यां तां ज्ञानस्य नित्यतया तदभावानुपपत्तेर्धर्मि प्रतियोगिज्ञाना-ऽज्ञानाभ्यांच व्याघातापत्तेर्भावश्रवण-मननादिपूर्वकनिदिध्यासनात् । योजनात् द्वैतज्ञानोपमर्दकयुक्तित उपबृंहणात् । तत्त्वभावात् परमार्थतोऽबाधितत्वात् । 'भूयश्च' इत्यस्याभिध्यानादावन्वयः। अन्ते तत्त्वसाक्षात्कारे सति । विश्व मायानिवृत्तिः विश्वस्य प्रपञ्चस्याविद्यकस्यभायायाश्च प्रपञ्चोपादानभूताऽविद्यायाश्च निवृत्तिः। समाधत्ते- तहीति। तामेव श्रुतिमेव । प्रष्टव्यस्वरूपमेवोपदर्शयति- कथमिति - अस्य 'निवर्तयसि' इत्यनेनान्वयः। निवृत्तःमपि नित्यनिवृत्तामपि, या कदाचिदपि न विद्यते तस्या मायाया निवर्तनमशक्यमेवेत्याशयः । कथं वेति- मायाऽप्यसती प्रपञ्चवैचित्र्यमप्यसदित्यसती मायाऽसत्प्रपञ्चवैचित्र्यं कर्तुमसमथैवेत्येवं वस्तुस्थितावपि तां प्रपञ्चवैचित्र्ये हे श्रुते ! कथं त्वं प्रवर्तयसीत्यर्थः । कथं वेति-'न जानामि' इत्याकारकसाक्षिप्रतीत्या सिद्धा याऽज्ञानशब्दवाच्या माया तां कथं वाऽपह्नोषीत्यन्वयः। ननु 'न जानामि' इति प्रतीतेानाभाव एव विषयो न तु भावरूपा मायेत्यत आह- ज्ञानस्येति । तदभावेति-शानाभावेत्यर्थः। ननु नात्र ज्ञानाभावो ज्ञानध्वंसो ज्ञानप्रागभावो वा विवक्षितो येन नित्यस्य ज्ञानस्य तदनुपपत्तिर्भवेत्, किन्तु ज्ञानात्यन्ताभाव एव 'न जानामि' इति प्रतीतिविषयः, अत्यन्ताभावश्च नित्यस्यापि प्रतियोग्यनधिकरणवृत्तिर्भवतीत्यत आहधर्मीति- विशिष्टबुद्धयात्मकाभावशाने धर्मिज्ञानं प्रतियोगिज्ञानं च कारणमिति 'न जानामि' इति ज्ञानं धमिण आत्मनः प्रतियोगिनो