________________
२७० ]
[ तत्वबोधिनीविवृतिविभूषितम् करण्यविशिष्टविशेष्यतासम्बन्धेन द्वैताभावव्याप्यधर्मवत्ताज्ञानवैशिष्टयरूपं वाच्यम् , अन्यथाऽतिप्रसङ्गात् , तच्च निर्धर्मके ब्रह्मणि न सम्भवतीत्यनुपपत्तेः, द्वैतज्ञानोपमर्दकयुक्त्युपबृंहितमहावाक्यार्थज्ञानत्वेन महावाक्यार्थज्ञानोपबृंहकतादृशयुक्तित्वेन वाऽज्ञाननिवर्तकत्वमितिविनिगमनाविरहाच्च । “तस्याभिध्यानाद् योजनात् तत्त्वभावाद्
द्वताभावेति- सदात्मकत्व-ज्ञानात्मकत्वा-ऽऽनन्दस्वरूपत्वादयो धर्मा ब्रह्मण्येव, तत्र द्वैताभावोऽस्तीति द्वैताभावव्याप्यास्त एव धर्मा. स्तद्वत्ताज्ञानस्य वैशिष्टयं सामानाधिकरण्यविशिष्टविशेष्यतासम्बन्धेन; अत्रोक्तज्ञानात्मकविचारोऽन्यपुरुषे, तदन्यपुरुषे च महावाक्यार्थज्ञानम् , तदपि विशेष्यतासम्बन्धेनोक्तज्ञानविशिष्टं स्याद् विशेष्यतापदेन समानविशेष्यता ग्राह्या, तथा चान्यपुरुषीययुत्यात्मकज्ञाने यदेव ब्रह्मरूपं विशेष्यं तदेव महावाक्यार्थज्ञानस्यापि तदन्यपुरुषगतस्य विशेष्यम् , यद्यपि निर्विकल्पकं तत् तथापि निर्विकल्पकज्ञानीयविषयताया अपि विशेष्यतारूपतया स्वीकारात्, अन्यथा प्रकारता. विशेष्यता-संसर्गताभिन्नायास्तस्यास्तुरीयत्वापत्तेः, अतः सामानाधिकरण्यनिवेशः, सामानाधिकरण्यं चात्रैककालावच्छिन्नैकाधिकरणवृत्तित्वरूपम्, तेन नैकपुरुषीयविभिन्नकालीनविचारवैशिष्टयमादायाति. प्रसङ्गः, ब्रह्माविशेष्यकनिरुक्तज्ञानात्मकविचारमादायातिप्रसङ्गवारणाय विशेष्यत्वस्य निवेशः। तच्च द्वैताभावव्याप्यधर्मवत्ताज्ञानवैशिष्ट्यरूपं द्वैतज्ञानोपमर्दकयुक्तयुपबृंहितत्वं च। निधर्मक इति-ब्रह्मणो निधर्मकत्वाद् द्वैताभावधर्म एव तत्र नास्तीति न तद्विशेष्यकनिरुक्तधर्मवत्ताज्ञानसंभव इति कुतस्तशिष्ट्यसम्भव इत्यर्थः। विनिगमनाविरहादपि न विचारपूर्वकमहावाक्यार्थज्ञानत्वेनाऽज्ञाननिवर्तकत्वमित्याह- द्वैतज्ञानोपमर्दकेति । तादृशयुक्तित्वेन द्वैतज्ञानोपमर्दकयुक्तित्वेन ।श्रुतेर्विनिगमकप्रमाणतया वेदान्ती आशङ्कते- तस्येति- ब्रह्मण इत्यर्थः। अभिध्यानात