________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २६९ कूटो निवेशनीयः ?, उत विचारपूर्वकत्वम् ?, आये विप्रतिपत्त्यनुपस्थितावादित एवाज्ञाननिवृत्तिप्रसङ्गः, द्वितीये च विचाराणामननुगतत्वादननुगमः । अथ द्वैतज्ञानोपमर्दकयुक्तित्वेन विचाराणामनुगमः, अत एव "फलवत्सनिधावफलं तदङ्गम्" इति न्यायाद् भ्रमसिद्धा अपि भिन्नभिन्ना जीवेश्वरविभागादिप्रक्रियाः शास्त्रेणानूद्यन्ते, तदनुवादपूर्व द्वैतोपमर्दकयुक्त्यवतारेण प्रधानीभूतात्मतत्वसिद्धिसम्भवादिति चेत् १ न-तथापि द्वैतज्ञानोपमर्दकयुक्त्युपबृंहितत्वं सामानाधित्वेनाज्ञाननिवर्तकत्वं वेत्यर्थः। आये विप्रतिपत्तिजन्यसंशयाभावकूटस्याऽज्ञाननिवर्तकतावच्छेदककोटौ निवेश इति पक्षे। विप्रतिपत्त्यनुपस्थिती पादिविप्रतिपत्तेरभावे। आदित एव प्रथमत एव । द्वितीये विचारपूर्वकत्वस्याज्ञाननिवर्तकतावच्छेदककौटौ निवेश इति पक्षे । विचाराणामननुगतत्वात् अनेकत्वात् , तथा चैकविचारपूर्वकत्वस्य निवेशे तद्विचारस्याभावेऽन्यविचारपूर्वकमहावाक्यार्थज्ञानतोऽप्यज्ञानाऽनिवृत्तिप्रसङ्ग इत्यर्थः। द्वैतज्ञानोपमर्दकयुक्तिपूर्वकमहावाक्यार्थज्ञानत्वेनाऽज्ञाननिवतकत्वाभ्युपगमे या या युक्तयो द्वैतज्ञानोपमहिन्यस्तासां सर्वासामपि द्वैतज्ञानोपमर्दकत्वेन सङ्ग्रहात् तदन्यतमयुक्तिपूर्वकमहावाक्यार्थज्ञानतोऽज्ञाननिवृत्तेः सम्भव इत्याशङ्कते- अथेति । अत एव द्वैतोपमर्दकयुक्तित्वेन विचाराननुगमय्य तत्पूर्वकत्वस्याऽज्ञाननिवर्तकतावच्छेदककोटौ निवेशादेव । जीवेश्वरविभागादिप्रक्रियाणाम नुवादस्य प्रयोजनमुपदर्शयति- तदनुवादपूर्वमिति- जीवेश्वरविभागादिप्रक्रियानुवादपूर्वकमित्यर्थः, अत्र ‘फलवत्सन्निधौ०' इतिन्यायसङ्गमना चेत्थम्-प्रधानीभूतात्मतत्त्वसिद्धिफलकत्वाद् द्वैतोपमर्दकयुक्तयात्मकविचारः फलवान, तदवतारार्थ तत्सन्निधौ श्रूयमाणा या भ्रमसिद्धा भिन्नभिन्ना अपि जीवेश्वरविभागादिप्रक्रियास्ताः प्रधानीभूत कलाजनकत्वादफलमपि फलवदुक्तविचाराङ्गमिति। प्रतिक्षिपति- नेति ।