________________
२६८ ]
[तत्त्वबोधिनीविवृतिविभूषितम् निवर्तकत्वम् ?, ओमिति चेत् ? सुषुप्तावतिप्रसङ्गः। महावाक्यजन्यतादृशज्ञानत्वेनाज्ञाननिवर्तकत्वमिति चेत् ? न-स्ववासनामात्रशरणत्वात् , महावाक्यजन्यत्वनिवेशे द्वैतानवगाहित्वविशेषणवैयर्थ्यात्, विनापि विचारमापाततः सकृदाकर्णितमहावाक्यार्थज्ञानादज्ञाननिवृत्तिप्रसङ्गाच्च। वेदान्तजन्यनिर्विकल्पात्मकसाक्षात्कारस्य स्वतः प्रामाण्येऽपि वादिविप्रतिपत्तिजसंशयप्रतिबन्धेनाऽज्ञाननिवर्तकत्वासामर्थ्याद् विचारोऽप्यपेक्ष्यत इति चेत् ?, तत् किं महावाक्यार्थज्ञानस्याज्ञाननिवर्तकतावच्छेदककोटौ वादिविप्रतिपत्तिजसंशयाभाव
भासते, न तु घटादिद्वैतमिति तज्ज्ञानादप्यज्ञाननिवृत्तिः स्यादिति सिद्धान्ती आह- सुषुप्तावतिप्रसङ्ग इति । 'तत् त्वमसि' इत्यादिमहावाक्यजन्यद्वैतानवगाह्यद्वैतज्ञानत्वेनाज्ञाननिवर्तकत्वमित्युपगमे न सुषु. मावतिप्रसङ्ग इति पर आशङ्कते- महावाक्यजन्येति । यदि द्वैतानवगाह्यद्वैतज्ञानस्याऽज्ञाननिवर्तने सामर्थ्य तर्हि महावाक्यजन्यं तद् भवतु कारणान्तरजन्यं वा तद् भवतु अज्ञानं निवर्तयदेव, तत्र महावाक्यजन्यस्यैव तस्य निवर्तकत्वमित्युपगमे स्ववासनैव प्रमाणं स्थादित्यनुपगन्तव्यमेव प्रामाणिकैरिति समाधत्ते- नेति। किञ्च, महावाक्यजन्यज्ञानं नियमेन द्वैतानवगाह्येव भवतीति महावाक्यजन्याद्वैतावगाहिज्ञानत्वेनाऽज्ञाननिवर्तकत्वमित्युक्तावपि ‘सन् घटः' इत्यादिज्ञानानां वारणसम्भवाद् द्वैतानवगाहित्वविशेषणस्य वैयर्थ्यमपीत्याह- महा. वावयेति । दोषान्तरमप्याह- विनापीति । परस्तत्र विचारस्यावश्यकत्वमोशङ्कते- वेदान्तजन्येति । 'अज्ञाननिवर्तकत्वासामर्थ्याद्' इति स्थाने 'अज्ञाननिवर्तनासामर्थ्याद्' इति पाठो युक्तः। सिद्धान्ती वेदान्तिनं पृच्छति- तत् किमिति-वादिविप्रतिपत्तिजन्यसंशयाभावकूटविशिष्टमहावाक्यार्थज्ञानत्वेनाज्ञाननिवर्तकत्वं विचारपूर्वकमहावाक्यार्थज्ञान